________________
९३
"
कस्मात् गीयते उच्यते; ननूक्तं प्रयोजनज्ञानार्थमीश्वरापेक्षेति चेत् ?, नोक्तं केनोच्यते, न तु युक्तमुक्तं, यदि प्रवर्तयेदीश्वरस्तदाऽस्य कर्मणः पूर्वकृतस्य फलमेतदनेन कर्मणा सम्पद्यते नान्यथेति तदुपभोगेन तत्क्षपणार्थं जन्तून् प्रेरयतस्तस्य प्रयोजनज्ञानमावश्यकं, यदा तु प्राणी स्वकर्मफलोपभोगार्थं स्वयमेव प्रवर्तते, तदेश्वरसिद्धिव्यसनं गृहलब्ध एव धने तदर्जनार्थं विदेशगमनसदृशम्, यथा च विदेशगमनेऽकृतेऽपि गृहस्थितधनं स्वत एव समुपार्जितमस्त्येव, तथा प्रेरकत्वादिनेश्वरसाधनेऽकृतेऽपि जन्तवश्चित्रकर्मणि प्रवर्तन्त एव स्वतः, सर्वज्ञत्वस्वाभाव्यादीश्वरस्य तत्प्रयोजनज्ञानमस्तु नाम, न च तत् तत्रोपयुज्यत इति ॥ ६ ॥ १९९॥
स्तबकः
]
स्याद्वादवाटिकाटीकासङ्कलितः
परस्याभिप्रायान्तरमाशङ्कय प्रतिक्षिपति
फलं ददाति चेत् सर्वं तत् तेनेह प्रचोदितम् ।
अफले पूर्वदोषः स्यात्, सफले भक्तिमात्रता ।। ७ ।। २०० ।। फलमिति । इह जगति, सर्व तत् शुभाशुभभेदभिन्नं निखिलमपि कर्म, तेन ईश्वरेण, प्रचोदितं प्रेरितमधिष्ठितं सदिति यावत् फलं सुख - दुःखादिलक्षणं, ददाति जनयति, अचेतनस्य चेतनाधिष्ठितस्यैव कार्यजनकत्वादिति, चेत् यदि, तदाऽत्र विकल्पद्वयमुपतिष्ठते - चित्रकर्म स्वतश्चित्रफलदाने समर्थम्, असमर्थं वा, तत्र प्रथमपक्षाभ्युपगमे आह- अफले पूर्वदोषः स्यादिति - स्वतश्चित्रफलदानासमर्थे कर्मणि ईश्वरेण तत्तत्फलदानाय प्रेरिते शुभेनापि तेनेश्वरप्रेरणयाऽशुभफलं भवेत्, अशुभेनापि तेनेश्वरप्रेरणया शुभफलमुपजायेतेत्येवं स्वर्ग नरकादिफल- नियमदोषः स्यात्, अथवा कर्म स्वतोऽफलं किन्तु ईश्वरो यं स्वर्ग नेतुमिच्छति तं तेन कर्मणा स्वर्गं प्रापयति, यं नरकं नेतुमिच्छति तेन कर्मणा नरकं प्रापयतीत्येवमीश्वरस्य तत्तत्फलदातृत्वेऽवीतरागत्वं प्रसज्येतेत्यर्थः; द्वितीयपक्षे त्वाह - सफले भक्तिमात्रतेति - स्वत एव चित्रफलदानसमर्थे कर्मण्यभ्युपगम्यमाने ईश्वरप्रेरणामन्तरेणापि ततः फलं स्यादेवेति 'ईश्वरोऽस्मात् कर्मण इदं फलं मे प्रयच्छतु' इति प्रार्थनमीश्वरे भक्तिमात्रं स्यात्, यथा हरीतकी मम मलरेचनं विदधात्वित्येवमजानताऽपि भक्षिता हरीतकी रेचनं करोत्येवेति; अचेतनं चेतना - धिष्टितमेव कार्यं जनयतीति नियमस्तु वने केनचित् पुंसाऽकृतवपनेनापि बीजेनाङ्कुरलक्षणकार्यदर्शनादसिद्धः ; ननु सर्वमचेतनं चेतनाधिष्ठितं सत् कार्यं करोति अचेतनत्वादित्येवमनुमानप्रयोगे वनबीजस्यापि पक्षत्वात् तत्र व्यभिचारो न दोषा