SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः दृष्टकारणान्यनुल्लङ्घयवादृष्टस्य कार्यजनकत्वाद् दृष्टकारणानामपि कारणत्वमावश्यक बाधकाभावात् , दृष्टकारणानि कर्मविपाकसम्पादनादेव चरितार्थानि; दृष्टकारणैविपक्वतामानीतं कमैव कारणमिति चेत् ? कर्मविपाको दृष्टकारणसम्पादन एव चरितार्थः, कर्मविपाकेन सुसम्पादितानि दृष्टकारणान्येव कारणमित्यस्यापि वक्तुं शक्यत्वात ; अभ्यन्तरत्वात् कर्मणो बलवत्त्वं बाह्यत्वादन्येषां दुर्बलत्वमिति तु न युक्तम् , बलवत्त्वस्योभयत्र “अब्भंतर-बज्झाणं” [अभ्यन्तर-बाह्यानाम् ] इत्यादिना महता प्रतिबन्धेनान्यत्राविशेषेणैव साधितत्वादित्यामनन्त्युपाध्यायाः ॥८०॥१९२॥ स्वभाव-नियत्योरदृष्टमात्रधर्मत्वेनादृष्टस्य कारणत्वे तवारेणैव कारणत्वं न स्वातयेण, किन्तु काला-ऽदृष्टयोरेव स्वातन्त्र्येण कारणत्वमित्येके आचार्याः प्रचक्षते; अन्ये पुनः सर्वस्य वस्तुनः सामान्येनैव धर्मों स्वभाव-नियती इति तावपि स्वातत्र्येण कारणमिति कालादयश्चत्वारोऽपि स्वातन्त्र्येण कारणमित्युशन्तीति मतभेदमुपदर्शयति स्वभावो नियतिश्चैव, कर्मणोऽन्ये प्रचक्षते । धर्मावन्ये तु सर्वस्य, सामान्येनैव वस्तुनः ॥ ८१ ॥ १९३॥ स्वभाव इति । नियतिश्चैवेत्येवकारस्य 'कर्मणः' इत्यनन्तरं सम्बन्धाद् धर्मावित्यस्य पूर्वोत्तरत्र च सम्बन्धात् 'स्वभावो नियतिश्च कर्मण एव धर्मों' इति अन्ये आचार्याः, प्रचक्षते अभ्युपगमप्रकर्षेण व्याख्यान्ति, किञ्चिद्वस्तूद्भूतरूपवदेव किञ्चिदनुभूतवदेवेत्येवं स्वभावभेदस्य हेतुभूतादृष्टस्वभावभेदादेवेति स्वभावस्यादृष्टधर्मत्वं, वह्निरूर्वमेव ज्वलति वायुस्तिर्यगेव गच्छतीत्यादिनियमो नियतादृष्टादेवेति नियमार्थ नियतेश्चादृष्टधर्मत्वमिति दिशा स्वभाव-नियत्योरदृष्टधर्मत्वमिति तेषामाशयः, “अन्ये तु अन्ये आचार्याः पुनः, सामान्येनैव दृष्टादृष्टसाधारण्येनैव, सर्वस्य वस्तुनः सर्वस्य पदार्थस्य स्वभावो नियतिश्च धर्माविति प्रचक्षते' इत्येवमन्वयः, यदि सामान्येन सर्ववस्तुधर्मो स्वभाव-नियती कथं तर्हि स्वातन्त्र्येण कारण इत्याकाङ्क्षानिवृत्तये उपाध्यायाः कथयन्ति-"अत्र स्वभावस्तथाभव्यात्मिका जातिः कार्यैकजात्याय, नियतिश्चातिशयितपरिणतिरूपा कार्यातिशयाय सर्वत्रोपयुज्यत इति" ॥ ८१ ॥ १९३ ॥ व्याख्या श्रीहरिभद्रसूरिरचिता मूलार्थविद्योतिका, भावार्थप्रकराञ्चिताऽतिगहनोपाध्यायजाताऽपरा । एवं सत्यपि तवयैकघटिताऽनन्याऽपि व्याख्या मया, दृब्धा स्वीयमतिप्रचारचतुरा स्याद् बालबोधाप्तये ॥ १॥
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy