SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [द्वितीयः इदमेव स्पष्टयतिन चैकैकत एवेह, कचित् किञ्चिदपीक्ष्यते । तस्मात सर्वस्य कार्यस्य, सामग्री जनिका मता ॥८०॥१९२॥ न चेति-नैवेत्यर्थः, अस्य 'ईक्ष्यते' इत्यनेनान्वयः, इह जगति, एकैकत एव कालादीनां मध्यादेकैकस्मादेव, क्वचित् कुत्रापि देशे, किश्चिदपि घटादिकं किमपि कार्यम् , ईक्ष्यते न चेत्यस्य सम्बन्धान्चैव जायमानमवलोक्यते, तस्मात् यस्मादेवं तस्मात् कारणात् , सर्वस्य कार्यस्य निखिलस्य घटादिकार्यस्य, सामग्री कथञ्चित् तद्भिन्नकारणसंहतिः, जनिका नियमतः स्वानन्तरक्षणवृत्तिकार्योत्पादकत्वेन कार्योपायिका, मता इष्टा । "अतः कालादयः सर्वे" इति पूर्वपद्येन कारणसमुदाये कार्योपधायकत्वनियमो व्यवस्थापितः, “न चैकैकत एवेह" इति द्वितीयपद्येन कार्ये कारणसमुदायलक्षणसामग्र्युपाधेयत्वनियमो व्यवस्थापित इत्युक्तिवैचित्र्येण पूर्वोक्तस्य दृढीकरणमुत्तरेणेति बोध्यम् । नन्वनन्तरोपदर्शितयुक्तिनिकरे कालायेकान्तवादप्रतिक्षेपयुक्त्युपदर्शनात् कालायेकान्तवादप्रतिक्षेपेऽपि तत्रादृष्टैकान्तवादप्रतिक्षेपकयुक्त्यनभिधानान्नैकान्तादृष्टवादप्रतिक्षेप इति ततोऽदृष्टैकान्तवादे जागर्ति सति कालादयः समुदिताः कारणं न त्वेकं किञ्चिदेव कारणमिति स्वाभिमतस्य साध्यस्य न सिद्धिरिति चेत् ? न-निखिलकर्मक्षयप्रभवस्य मोक्षस्य कार्यस्यापि कर्माजन्यत्वेन कार्यजातं कर्मजन्यमेवेत्येकान्तवादेऽनिर्मोक्षापत्तेः; न चात्मस्वरूपावस्थानरूप एव मोक्षः, स च नित्यत्वान्न केनचिजन्यः, किन्तु कर्मक्षयेणाभिव्यज्यत एवेति नानिर्मोक्षापत्तिरिति वाच्यम् , मोक्षस्याजन्यत्वेऽपि तदभिव्यञ्जकस्य कर्मक्षयस्यैव कर्म विनाऽनुत्पत्त्याऽभिव्यज्यमानात्मस्वरूपावस्थानलक्षणमोक्षानुपपत्तेः, यद्यपि प्रतियोगितासम्बन्धेन ध्वंसं प्रति तादात्म्यसम्बन्धेन प्रतियोगिनः कारणत्वमिति सामान्यकार्यकारणभावबलात् कर्मक्षयं प्रत्यपि कर्मणः कारणत्वमस्त्येव, तथापि स्वजन्यकार्यत एव कर्मक्षय इति स्वजन्यकार्योत्पत्तिकाले कर्मसत्त्वमावश्यकं, प्रतियोगी च स्वध्वंसकाले न समस्तीति प्रतियोगिविधया कारणत्वातिरिक्तकारणत्वमेव कर्मणः कार्यमानं प्रति कारणत्वं कर्मवादिनोऽभिमतं तच्च कर्मक्षयं प्रति कर्मणो नास्त्येवेति; स्वप्रयोज्यज्ञानयोगसम्बन्धेन पूर्वकमैव कर्मक्षये हेतुरिति न कर्मवादे तदनुपपत्तिरिति चेत् ?, न-कर्मवादे कार्यमानं प्रति साक्षात्सम्बन्धेनैव कर्मणो हेतुत्वस्यौचित्यात् , परम्परया कारणत्वस्येष्टत्वे तु स्वाश्रयप्रयोज्यज्ञानयोगसम्बन्धेन कर्मत्वस्यैव जातिस्वरूपस्य कर्मापेक्षया लघुशरीरस्य हेतुत्वापत्तेः; किञ्च
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy