________________
स्तबकः ]
स्याद्वादवाटिकाटीका सङ्कलितः
६७
दोषान्तरमप्युपदर्शयति
यतश्च काले तुल्येऽपि, सर्वत्रैव न तत्फलम् ।
अतो हेत्वन्तरापेक्षं, विज्ञेयं तद्विचक्षणैः ॥ ७८ ॥ १९० ॥
यतश्चेति यस्माच्चेत्यर्थः, काले समयादौ, तुल्येऽपि समानेऽपि सति, अविशिष्टेऽपि सतीति यावत्, सर्वत्रैव सर्वस्मिन्नपि कृषीवलादौ, तत्फलं कालजन्यफलं शस्यादिकं, न तुल्यं न भवति, अथवा सर्वस्मिन्नपि तन्त्वादिदेशे तत्कालजन्यं घटादि न भवति, अतः अस्मात् कारणात्, तत्फलं कालफलं, विचक्षणैः पण्डितैः, युक्तिमार्गाभिज्ञैः, हेत्वन्तरापेक्षं कालातिरिक्तादृष्टदेशविशेषादिरूपकारणापेक्षम्, विज्ञेयं ज्ञातव्यम्, न च कालस्य कारणत्वे काल एव कालजन्यं घटादि, मृद्भिन्ने तन्त्वादावापादकाभावादेव तदापादनं न सम्भवतीति वाच्यम्, घटादिकं मृदवृत्ति स्यान्मृदजन्यत्वादित्येवमेवापादनात् ; न च कालवादे मृदः कार्यमात्रे कारणत्वाभावान्मृज्जन्यत्वाप्रसिद्धौ मृज्जन्यभिन्नत्वमप्यप्रसिद्धमिति न तस्यापाद्येन मृदवृत्तित्वलक्षणापाद्येन व्याप्तिरिति तर्कमूलापाद्यापादकव्याहयसिद्धिरिति वाच्यं जन्यतासम्बन्धेन मृद्वद्भिन्नत्वरूपस्य मृदजन्यत्वस्यापादकत्वात्, व्यधिकरणसम्बन्धस्य भेदप्रतियोगितावच्छेदकत्वाभावे तु जन्यतासम्बन्धावच्छिन्नमृन्निष्टप्रतियोगिताकाभाववत्त्वमेव मृदजन्यत्वम्, व्यधिकरणसम्बन्धस्यात्यन्ताभावप्रतियोगितावच्छेदकत्वस्य सर्वानुमतत्वात् ; न च घटस्य मृज्जन्यत्वाभावेऽपि मृद्वृत्तित्वस्वभावत्वादेव मृद्वृत्तित्वमिति क्वाचित्कत्वमिति वाच्यम्, घटो यदि मृज्जन्यो न स्यान्मृद्वृत्तित्वस्वभावो न स्यादित्येवं मृद्वृत्तित्वस्वभावाभावस्यैवापाद्यत्वादिति ॥ ७८ ॥ १९० ॥
उपसंहरति
अतः कालादयः सर्वे, समुदायेन कारणम् ।
गर्भादेः कार्यजातस्य, विज्ञेया न्यायवादिभिः ॥ ७९ ॥१९१॥
अत इति उक्तकारणादित्यर्थः, कालादयः सर्वे काल-स्वभाव-नियति-कर्मस्वरूपा यावन्तोऽनन्तरोक्ताः, समुदायेन स्वस्वसमवधानेन, गर्भादेः कार्यजातस्य गर्भादिसकलकार्यस्य, न्यायवादिभिः युक्तिमार्गविचक्षणैः, कारणं जनकं, विज्ञेयाः ज्ञातव्याः ॥ ७९ ॥ १९१॥