SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ६४ शास्त्रवार्तासमुच्चयः। [द्वितीयः केवलभेदकस्वभाववादस्यासाधुत्वमुपदर्शयतिस्वो भावश्च स्वभावोऽपि, स्वसत्तैव हि भावतः । तस्यापि भेदकाभावे, वैचित्र्यं नोपपद्यते ॥ ७४ ॥१८६॥ खो भावश्चेति । कृष्णकोकिलः शुक्लशङ्ख इत्यादावेकपदव्यभिचारेऽपि कर्मधारयस्य दर्शनेन स्वभाव इत्यादी भावस्य स्वभिन्नस्य संभवेऽपि स्वस्य भावभिन्नस्याभावाद् भावपदमेव व्यभिचारि न तु स्वपदमित्येकपदव्यभिचारित्वेऽपि स्वश्चासौ भावश्व स्वभाव इति कर्मधारयसमास एवेत्याशयेनाह -स्खो भावश्च स्वभावोऽपीति । भावपदार्थः कश्चिदन्यो यः स्वस्मादभिन्नः सन् स्वभाव इत्यनेनोच्यते इति भ्रान्तिवारणाय तद्विवरणमाह-स्वसत्तैव हि भावत इति । सर्वस्य वस्तुनः, स्वसत्तैव प्रत्यक्षविषयो भवति तस्मात् हि निश्चितं, भावतः परमार्थतः, स्वसत्तैव स्वभावः, नान्यः कश्चित् पदार्थः स्वभावो नाम, तस्यापि स्वसत्तारूपस्य स्वभावस्यापि, भेदकाभावे अवान्तरभेदनिबन्धनवस्त्वन्तराभावे, वैचित्र्यं कार्यवैचित्र्यप्रयोजकत्वं, नोपपद्यते न युज्यते, कार्यवैचित्र्यं हि कारणवैचित्र्याद् भवितुमर्हति नान्यथा, कारणं च स्वभावः स्वसत्तारूपोऽविशिष्ट इति कार्यमप्यविचित्रमेव स्यादित्यर्थः ॥ ७४ ॥ १८६ ॥ यदि स्वभावस्य वैचित्र्यं न स्यात् तदा किमनिष्टमापद्यत इत्यपेक्षायामाहततस्तस्याविशिष्टत्वाद् , युगपद्विश्वसम्भवः । नचासाविति सद्युक्त्या, तद्वादोऽपि न सङ्गतः॥७५॥१८७॥ तत इति-वैचित्र्याभावादित्यर्थः, तस्य स्वभावस्य, अविशिष्टत्वात् एकरूपत्वात् कारणात् तस्यैकस्य स्वभावस्य विश्वजनकत्वेऽभ्युपगम्यमाने सति, युगपत् एकदैव, विश्वसम्भवः विश्वस्य जगत उत्पादप्रसङ्गः, यावद्धि भावेन भवितव्यं तत् सर्वं युगपत् प्रसज्येतेति यावत् , न चासौ युगपज्जगदुत्पादो न च भवति, इति एतस्मात् कारणात्, सद्युक्त्या अबाधिततर्केण, तद्वादोऽपि स्वभाववादोऽपि, न सङ्गतः न सङ्गतिमुपगच्छति । ननु स्वभावस्य क्रमवत्कार्यजनकत्वं स्वभावादेवेति स्वभावाद् भवदपि कार्य क्रमेणैव स्यादिति न युगपत्कार्यप्रसङ्ग इति चेत् ? न,-तस्यैव स्वभावस्य पूर्वोत्तरकार्यजनकत्वे पूर्वकालभावि कार्यमुत्तरकाले उत्तरकालभावि कार्य पूर्वकालेऽपि स्यात् स्वभाववादे कालस्याकारणत्वादिति पूर्वमिदं कार्यमिदं चोत्तरमेवमित्येवं नियतकार्यभवनलक्षणक्रमस्यैव व्याहतेः, एकस्यैव स्वभावस्य नानाजातिनियामकत्वे सर्वस्य सर्वजातीयत्वमेकजातीयत्वं वा स्यान्नियामकस्य स्वभावस्याविशेषात् ॥ ७५ ॥ १८७ ॥
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy