________________
६३
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः तदा ननु इत्याक्षेपे, स्वभावाश्रयणात् नियतेरपि स्वभाववैचित्र्यादेव कार्यवैचित्र्यस्याभ्युपगमाद् , नियतिवादः नियतिरेव विशेषणान्तरविनिर्मुक्ताऽन्यनिरपेक्षा कार्यमानकारणमित्यभ्युपगमः, त्यक्तः स्यात् परित्यक्तो भवेत् । ननु नियतिस्वभावो नियतेरेव कार्यभेदजननोन्मुखतालक्षणपरिपाकावस्था, अवस्था चावस्थातुरभिन्नेति न स्वभावाश्रयणेऽपि नियतिभिन्नकारणत्वाभ्युपगम इति चेत् ?, न-परिपाकस्य कादाचित्कत्वेन सहेतुकतया तत्रान्यहेत्वाश्रयणस्यावश्यकत्वात् ; अन्यत्र परिपाकः कश्चित् कारणान्तराद् भवति कश्चित् स्वभावाद् भवतीत्येवं परिपाकस्य द्वैविध्यदर्शनेऽपि नियतेः परिपाकः स्वभावादेवेति न तत्र कारणान्तरापेक्षेनि चेत् ? एवमपि नियतिव्यतिरिक्तस्य स्वभावस्य तत्र कारणत्वाभ्युपगमेन नियतिवादः परित्यक्त एव स्यात् ; उत्तरोत्तरनियतिपरिपाके पूर्वपूर्वनियतिपरिपाक एव हेतुः, आद्यनियतिपरिपाके तु पूर्वपूर्वनियत्यपरिपाकत उत्तरोत्तरनियत्यपरिपाकपरम्परायामन्तिमनियत्यपरिपाको हेतुः, इत्येवं विशिष्य हेतुहेतुमद्भावान्न दोष इति चेत् ? तयकत्रैकदा घटनियतिपरिपाकेऽन्यत्रापि घटोत्पत्त्यापत्तिः, नियतिपरिपाकरूपघटोत्पत्तिकारणस्य सद्भावात् ; तद्धटनियतिपरिपाकस्तद्धटे हेतुः, तदन्यघटव्यक्तिनियतिपरिपाकस्तदन्यघटव्यक्ती हेतुरित्येवं प्रतिसन्तानं नियतिभेदाभ्युपगमे नियतिव्यं सर्वानुगामित्वात् तत्परिपाकः प्रतिसन्तानविभिन्नत्वात् पर्याय इत्येवं नियति-परिपाकयोव्यपर्यायनामान्तरत्व एव विवादः, यच्चास्माभिव्यमिति कथ्यते तत् परेण नियतिरिति, यच्चास्माभिः पर्याय इत्युच्यते तत् परेण परिपाक इति; किञ्च शास्त्रोपदेशमन्तरेणाप्यर्थेषु नियतिकृतत्वबुद्धेनियत्यैव सम्भवेन विश्वं नियतिकृतमित्येवं शास्त्रोपदेशस्य वैयर्थ्यं स्यात् , दृष्टादृष्टफलशास्त्रप्रतिपादितशुभाशुभक्रियाफलनियमाभावश्च प्रसज्येत, यच्च शास्त्रप्रतिपादितशुभक्रियाफलं तत् प्रति शास्त्रप्रतिपादितशुभक्रिया न कारणं, यच्च शास्त्रप्रतिपादिताशुभक्रियाफलं तत् प्रति शास्त्रप्रतिपादिताशुभक्रिया न कारणं, किन्तु नियत्यैव तदुभयं जायत इति शास्त्रप्रतिपादितशुभक्रियायां सत्यामपि नियत्याऽशुभफलं स्यात् , शास्त्रप्रतिपादिताशुभक्रियायां सत्यामपि नियत्या शुभफलं जायेतेति; यदि च शास्त्रप्रतिपादितशुभक्रियाहेतुकमेव सुखादिशुभफलं नियतिप्रयोज्यं, शास्त्रप्रतिपादिताशुभक्रियाहेतुकमेव दुःखाद्यशुभफलं नियतिप्रयोज्यमित्युपेयते तदा नियतिभिन्नयोः शुभाशुभक्रिययोरपि शुभाशुभफलकारणत्वस्यागततया अन्यकारणत्वप्रतिक्षेपस्य निधत्यसहकृतान्यकारणत्वप्रतिक्षेपपरत्वेन पारिभाषिकस्यान्यकारणत्वाबाधकत्वात् ॥ ७३ ॥ १८५॥