SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [द्वितीयः तद्भिन्नभेदकत्वे चेति-तद्भिन्नं नियतिभिन्नं भेदकं यस्याः सा तद्भिन्नभेदका, तस्या भावस्तद्भिन्नभेदकत्वं, तस्मिन्नित्येवं निरुत्याश्रयणानियतेर्नियतिभिन्नभेदकशालित्वे चेत्यर्थः, अङ्गीक्रियमाणे इति शेषः, तत्र भेदकत्वेनाभिमते, तस्याः नियतेः, न कर्तृता न हेतुता, भेदकत्वेनाभिमताद् वस्तुनो भिन्ना सती नियतिः समर्था भवेन्नान्यथा, असमर्था च सा न भेदकवस्तूत्पादनप्रत्यला, भेदकवस्तूत्पादमन्तरेण भेदकवस्त्वेव नास्तीति ततः कथं सा स्यादतो नियतिभिन्नमेव किञ्चिन्नियतिभेदकवस्तु कारणं, न नियतिरिति नियतेर्नियतिभेदकवस्त्वहेतुत्वे सर्वहेतुत्वसिद्धान्तव्याकोपः, नियतेः सर्वहेतुत्वमिति सिद्धान्तमनुरुध्य तत्कर्तृत्वे च नियतेर्नियतिभेदकत्वाभिमतवस्तुहेतुत्वे च तदपि वस्तु नियतमेव स्यात् , तथा च तद्वत् नियतिवत् , यथा नियतिर्नियता सती न नियतिभेदिका तथेति यावत् , तस्यापि नियतिभेदकत्वाभिमतवस्तुनोऽपि, चित्रत्वं भेदकत्वाविनाभूतचित्रत्वम्, असंगतम् असमञ्जसम्, कारणसरूपत्वात् कार्यस्य, कारणस्य चित्रत्वे सत्येव कार्यस्य चित्रत्वं, कारणं च नियतिर्न भेदकत्वाविनाभूतचित्रत्वशालिनीति तत्कार्यमपि भेदकं वस्तु तथा न स्यादिति भावः । एतेन "तद्व्यक्तिनिरूपितनियतित्वेन तद्वयक्तिजनकत्वम्" इत्यप्यपास्तम्, तन्नियतिजन्यत्वेन तद्वयक्तित्वसिद्धिः, तद्वयक्तित्वसिद्धौ च तद्वयक्तिनिरूपितनियतित्वेन नियतेर्जन्यत्वस्य तद्वयक्तौ सिद्धिः, इत्यन्योऽन्याश्रयात् , तद्वयक्तेर्नियतिकार्यस्य स्वनिरूपितनियतिनिष्ठकारणतायामनवच्छेदकत्वाच्च, तत्तत्कार्यस्य स्वनिरूपितकारणतायामवच्छेदकत्वाभ्युपगमे च तद्वयक्तिं प्रति तद्वयक्त्यव्यवहितपूर्ववर्ति कारणमित्यस्य सम्यक्त्वेन तत्र नियतित्वनिवेशवैयर्थ्यात् , तथा नियतिरखण्डस्वरूपा न किञ्चिन्निरूपिता किन्तु तद्गतकारणत्वादेः सनिरूपकत्वात् तत्र निरूपितत्वोपचारः, तथा च तद्वयक्तिनिरूपितकारणताश्रयत्वमेव नियतेस्तद्वयक्तिनिरूपितत्वमिति तद्वयक्तिनिरूपितकारणत्वस्य तद्वयक्तिनिरूपितकारणताया अवच्छेदककोटौ प्रवेशेनावच्छेदकत्वादात्माश्रयोऽपीति ॥७२॥ १८४ ॥ ननु नियतिस्वभावभेदादेव तत्कार्यभेद इति पराकूतमाशङ्कय प्रतिक्षिपतितस्या एव तथाभूतः, स्वभावो यदि चेष्यते । त्यक्तो नियतिवादः स्यात् , स्वभावाश्रयणान्ननु॥७३॥१८५।। तस्या एवेति-नियतेरेवेत्यर्थः, तथाभूतः कार्यभेदप्रयोजको विचित्रभेदकजननरूपः, स्वभावभेदः स्वसत्तालक्षणो विभिन्नस्वभावः, यदि चेष्यते परेण यद्येवमभ्युपगम्यते, एवमभ्युपगमे परस्य को दोष इत्यपेक्षायामाह-त्यक्त इति ।
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy