SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ स्याद्वादवाटिकाटीका सङ्कलितः स्तबकः ] पराभिप्रायमाशङ्क्य परिहरतितत्तत्कालादिसापेक्षो, विश्वहेतुः स चेन्ननु । मुक्तः स्वभाववादः स्यात्, कालवादपरिग्रहात् ।। ७६ ।। १८८ ।। तत्तत्कालादिसापेक्ष इति तत्तत्क्षणादिलक्षणकालसहकृतः सन्नित्यर्थः, स स्वभावः, विश्वहेतुः जगतः कारणम्, तथा च तत्तत्क्षणरूपसहकारिणः क्रमि - कत्वेन कार्यक्रमिकत्वसंभवादिति चेत् यदि, ननु इति आक्षेपे, मुक्तः स्वभाववादः स्वभावमात्रकारणतैकान्तवादः परित्यक्तो भवेत्, कालवादपरिग्रहात् कालोऽपि कारणमित्येवं कालवादस्य स्वीकारात् ; ननु स्वभावस्य क्षणिकत्वात् क्षणिकस्वभावाद् भवत् कार्यमपि क्षणिकमिति स्वभाव एव क्षणस्तदतिरिक्तः क्षणो नास्तीति क्षणिकस्वभावाभ्युपगमपक्षे नायं दोष इत्युक्तमेवेति चेत् ? उक्त, को नाम नोक्तमिति कथयति ? किन्तु तन्न युक्तम्, यतः क्षणिकवादे तत्तत्क्षणं प्रति तत्तत्क्षणस्यैव कारणत्वेनैकजातीयहेतुं विना कार्येकजात्यासम्भवात् कुर्वद्रूपत्वस्य दण्डत्वादिना सार्येण जातित्वाभावेन घटं प्रति घटकुर्वद्रूपत्वेन हेतुत्वस्य वक्तुमशक्यत्वात् ; न च कुर्वद्रूपत्वेन कारणत्वाभावे एकस्माद् दण्डादितः कार्यानुत्पादेन सहकारिचक्रसमवहितस्यैव कारणत्वं वाच्यमिति गौरवं स्यादिति वाच्यं, सामग्रीत्वेन कार्यव्याप्यत्वस्य वास्तविकत्वेन गौरवस्यादोषत्वात् प्रत्यभिज्ञानादिबाधितत्वेन क्षणिकत्वस्य स्वीकर्तुमशक्यत्वाच्च; किञ्च घटकुर्वद्रूपाद् घट इत्यभ्युपगमे यत्र वचिद् घटकुर्वद्रूपसत्त्वे तद्देश इवान्यदेशेऽपि घटः स्यात् कारणस्य कुर्वद्रूपस्याविशेषात्, तद्व्यतिरिक्तस्य देशस्याकारणत्वात्, अस्मिन् देश एवास्य घटस्योत्पत्तिरित्वेतन्नियामककारणान्तरस्याभ्युपगमे स्वभावैकान्तकारणतावादः परित्यक्तः स्यात्, usic घटादिसाधनत्वं प्रमायैव घटाद्यर्थिनां प्रेक्षावतां दण्डादिकारणचक्रसम्मेलने प्रवृत्तिरुपलभ्यते, यदि च दण्डादिकं न घटादिकारणं तर्हि दण्डादिकं विनाऽपि घटादिसम्भावना घटाद्यर्थिनो दण्डादिसङ्घटने निष्कम्पप्रवृत्तिर्न स्यात् ; न च कार्य स्वभावाद् भवतीति स्वभाववादस्य कार्यं निर्हेतुकमेवोपजायत इत्यत्रैव निर्भर इति वाच्यं, कार्यं निर्हेतुकमित्यत्र हेतोरनुपन्यासे उक्तप्रतिज्ञातार्थस्यैवासिद्धेः, हेतोरुपन्यासे च तथाहेतुमुपन्यस्यतो वादिनः कार्यं निर्हेतुकमिति वदतो व्याघातात्, तदुक्तम् 5 ६५ "न हेतुरस्तीति वदन् सहेतुकं, ननु प्रतिज्ञां स्वयमेव बाधते । अथापि हेतुप्रलयादसौ भवेत्, प्रतिज्ञया केवलयाऽस्य किं भवेत् ? ॥ १ ॥” इति; ५ शास्त्र०स०| • द्वि०
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy