________________
OILY
Sial
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः विधिना सुखदुःखप्रदानादिलक्षणेन प्रकारेण, इदं प्रत्यक्षविषयं, विश्वं जगत्, अध्यक्षमेव दृश्यते स्वसंवेदनप्रत्यक्षसाक्षिकमेवावलोक्यते, यत् यस्मात् कारणात् , तस्मात कारणात् , हि निश्चितम् , तत विश्वम्, तत्कर्मजं भोक्तृकर्मजमेव, तस्माज्जगद्धेतुत्वं कर्मण्येव, पराभिमतहेवनांतजिनानान्यभिचारित्वादिति हृदयम् ॥ ६६ ॥ १७८ ॥ उक्तमेवार्थ समर्थयन्नाहन च तत्कर्मवैधुर्ये, मुद्गपक्तिरेषीयते । स्थाल्यादिभङ्गभावेन, यत् क्वचिन्नापपाने ।। ६७ । ७ ।। न चेति-अस्य ‘ईक्ष्यते' इत्यनेनान्वयः, तत्कर्मवैधुर्ये भोक्तृकर्मवैगुण्ये भोक्तृगतानुकूलादृष्टाभावे इति यावत् , मुद्गपक्तिरपि न चेक्ष्यते नैव दृश्यते, कथमित्यपेक्षायामाह-स्थाल्यादिभङ्गभावेनेति । यत् यस्माद्धेतोः, क्वचित् विवक्षितस्थाने, स्थाल्यादिभङ्गभावेन पाकोपयोगिस्थाल्यादिगतच्छिद्राद्युपजजननेन, नोपपद्यते न सिध्यति; ननु स्थाल्यादिकं यत्पाकस्य दृष्टं कारणं तद्वैगुण्यादेव तत्रं पाकरूपकार्याभाव इति किमित्यदृष्टं कर्मजन्यं पाकजनकमभ्युपेयमिति चेत् ? तदेव दृष्टवैगुण्यं यन्निमित्तकं तदेव कार्यप्रतिबन्धकादृष्टं, तत एव कार्यानुत्पादो न्याय्यः, दृष्टवैगुण्यस्य कार्यवैगुण्यप्रयोजकत्वकल्पनापेक्षया तन्निमित्तस्यादृष्टस्यैव कार्यवैगुण्यप्रयोजकत्वकल्पने लाघवात् , तस्य कारणत्वकल्पनापेक्षया वरं तद्धेतोरेव कारणत्वमिति न्यायात्, नन्वेवमदृष्टमात्रस्यैव कारणत्वे कार्यमाने दृष्टकारणापेक्षा न स्यादिति चेत् , ? तथाविधप्रयत्नं विनाऽपि शुभादृष्टलक्षणभाग्यबलाद् धनप्राप्त्यादिलक्षणकार्यविशेषस्य दर्शनेन दृष्टकारणानपेक्षणमिष्टमेव, दृष्टकारणानां तन्निमित्तत्वव्यवहारस्तु कर्मविपाककालेऽवर्जनीयसन्निधिकत्वादेव, तत एव च "दृष्टकारणानामदृष्टव्यञ्जकत्वम्” इति सिद्धान्तः, तदुक्तम्
"यथा यथा पूर्वकृतस्य कर्मणः, फलं विधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्तते॥ १॥" [ ] इति, विपाककालश्च कर्मण एवावस्थाविशेष इति तदपेक्षणेऽपि न कालवादप्रवेशः, कर्मपरम्पराया अनादित्वेनोत्तरोत्तरकर्मसु पूर्वपूर्वकर्मणां कारणत्वेन कर्महेत्वपेक्षाव्यग्रताऽपि नास्तीति ॥ ६७ ॥ १७९ ॥