________________
शास्त्रवार्तासमुच्चयः। [द्वितीयः यनाद्यर्थिनो घटानयनादिक्रियावैफल्यमेव, तामन्तरेणापि जलाद्यानयनादिसम्भवात् , पटस्य सिद्धत्वे तदात्मकघटव्यक्तेरपि सिद्धत्वेनासाध्यत्वात् तदुत्पत्तिप्रयासस्यापि वैफल्यम् ; दण्डादिकारणसम्मेलनेन या घटव्यक्तिश्चिकीर्षिता सा व्यक्तिरसिद्धैवेति चेत् ? सा व्यक्तिरित्यत्र व्यक्तिविशेषणतयोपादीयमानं तत्त्वं नान्यस्माद भेदः, भेदस्य सप्रतियोगिकस्य प्रतियोगिग्रहमन्तरेण न ग्रह इत्यन्यभेदाग्रहेऽपि सोऽयमिति तत्ताग्रहात्, न च तद्वयक्तिरेव तत्त्वम् , विशेषणविशेष्यभावस्य भेदनियतत्वेन तद्व्यक्तौ तद्वयक्तिरूपतत्त्वस्य विशेषणत्वासम्भवात् किन्तु नियतिकृतधर्मविशेष एव तत्त्वमिति सिद्धा नियतिः, अथवाऽनियतहेतुत्वे घटार्थिनो मृद उपादानेऽपि ततो घटो न जायेत, किन्त्वन्यदेव भवेदिति विलक्षणसंस्थानादि-, मत्तया घटार्थिनोऽभिमतस्य घटस्यासिद्धिरित्येवं क्रियावैफल्यं प्रसज्यते, तथा नियतेन तत्त्वान्तरेण सर्वान्वयव्यतिरेकसिद्धेर्नियतिरेव कारणमिति ॥ ६४ ॥१७६॥
॥ इति एकान्तनियतिकारणतावादः॥
॥ अथ कर्मवादः॥ अथ कमैंकान्तकारणतावादिमतमुपदर्शयतिन भोक्तव्यतिरेकेण, भाग्यं जगति विद्यते । न चाकृतस्य भोक्ता स्यान्मुक्तानां भोगभावतः॥६५॥१७७॥ न भोक्तव्यतिरेकेणेति-नो 'विद्यते' इत्यनेनान्वयः, भोक्तव्यतिरेकेणभोक्तारमन्तरेण, जगति चराचरे, भोग्यं भोक्तव्यं, न नैव, विद्यते समस्ति, भाग्यपदार्थस्य ससम्बन्धिकत्वेन सम्बन्धिभूतभोक्तारमन्तरेण भोग्यत्वानुपपत्तेः, न चाकृतस्य स्वयमनुपात्तस्य कर्मणः, भोक्ता फलोपभोक्ता, स्यात् भवेत् , स्वव्यापारजन्यस्यैव स्वभोग्यत्वदर्शनात्, एवमनभ्युपगमे दण्डमाह-मुक्तानामिति-निष्ठितार्थानामित्यर्थः, भोगभावतः भोगप्रसङ्गात् , अन्यकृतकर्मफलोपभोगप्रसङ्गादिति यावत् ॥ ६५ ॥ १७७ ॥ यदि नामैवं ततः किमित्यपेक्षायामाहभोग्यं च विश्वं सत्त्वानां, विधिना तेन तेन यत् । दृश्यतेऽध्यक्षमेवेदं, तस्मात् तत्कर्मजं हि तत् ॥६६॥१७८॥ भोग्यं चेति-भोगप्रयोजनं चेत्यर्थः, सत्त्वानां संसारिणाम् , तेन तेन