________________
शास्त्रवार्तासमुच्चयः ।
[द्वितीयः
कर्मणो विचित्रस्य विचित्रकार्यकारणत्वाभावे नियत्यादेरवैचित्र्यात् कार्यंवैचित्र्यं न स्यादिति विपक्षे बाधकमुपदर्शयति
चित्रं भोग्यं तथा चित्रात कर्मणोऽहेतुतान्यथा ।
६०
तस्य यस्माद् विचित्रत्वं, नियत्यादेर्न युज्यते ॥ ६८ ॥ १८० ॥ चित्रं भोग्य मिति - नानाप्रकारं भोग्यमित्यर्थः, भोग्यस्य नानाप्रकारत्वं प्रतिनियतरूपत्वादेव, यदेकस्य भोग्यस्य रूपं न तदन्यभोग्यस्येत्यावेदनाय तथेति - प्रतिनियतरूपेणेत्यर्थः, चित्रात् प्रतिनियतविभिन्नरूपात् कर्मणः अदृष्टात्, उपपद्यत इति दृश्यम्, कर्मण एव तत्तत्कार्यजनकवि चित्रशक्तियोगित्वेन चित्रत्वं, न तु नियत्यादेरिति हृदयम्, अन्यथा कार्यवैचित्र्यनिमित्तकर्मवैचित्र्यानभ्युपगमे, " तस्य भोग्यस्य, अहेतुता अजन्यता, स्यादिति शेषः क्वचिदुद्भूतरूपं, क्वचिदनुद्भूतरूपं, परमाणुसाद्भूतानां शाल्यादिबीजानां शाल्याद्यङ्कुरजनकत्वमेवेति नियमे नैयायिकेनाप्यदृष्टस्यैव हेतुताऽङ्गीकारात्, तथा च तस्यैव सर्वत्र हेतुत्वमुचितमित्याशयः, कर्मणो विचित्रत्वात् कार्यवैचित्र्यं सम्भवति, न नैयत्यादेस्तस्याविचित्रत्वादित्याह यस्माद् एकरूपत्वात्, नियत्यादेः सकाशात्, तस्य भोग्यस्य, विचित्रत्वं प्रागुपदर्शितम्, न युज्यते नैव सङ्गच्छते ॥ ६८ ॥ १८० ॥
"
एतदेव भावयति
नियतेर्नियतात्मत्वान्नियतानां समानता ।
तथाऽनियतभावे च, बलात् स्यात् तद्विचित्रता ।। ६९ ।। १८१ ॥ नियतेरिति-उक्तलक्षणाया नियतेरित्यर्थः, नियतात्मत्वात् एकस्वभावत्वात्, एकरूपत्वादिति यावत् नियतानां नियतिजन्यत्वेनाभिमतानां समानता तुल्यता भवेत्, एकरूपकारणजन्यानां कार्याणामेकरूपत्वस्यैव न्याय्यत्वात्, तथा तेन प्रकारेणासमान कार्यकारणरूपेण, यथाऽदृष्टस्यासमानकार्यकारणरूपेण विचित्रता तथा, अनियतभावे च नियतेरनवस्थितत्वे, असमानकार्यकारित्वे इति यावत्, अभ्युपगम्यमाने पुनः, बलात् सामर्थ्यात् न ह्येकस्वभावस्यासमानकार्यकारित्वं किन्तु विचित्रस्वभावस्यैवेति न्यायात्, तद्विचित्रता नियतिविचित्रता, स्यात् भवेत्, 'अन्रोपाध्यायाः- “ घटो यदि पटजनकान्यूनानतिरिक्तहेतुजन्यः स्यात् पटः स्यात्, घटजनकं यदि पटं न जनयेत् पटजनकाद् भिद्येत इति तर्कद्वयम्” उल्लिखन्ति ॥ ६९ ॥ १८१ ॥
wwwwwww