________________
५४
शास्त्रवार्तासमुच्चयः ।
[द्वितीयः सहकरिसमवधानासमवधानाभ्यां ततः कार्यजननाजनने उपपत्स्येते इति चेत् ? न-स्वभावस्य कार्यजननपरिणतिलक्षणस्य कार्यैकगम्यस्याङ्कुरोत्पादाव्यवहितपूर्वक्षण एव बीज एव भाव इति तादृशस्वभाववत्त्वाद् बीजान्तरतो विलक्षणं यद् बीजं तद्विलक्षणबीजत्वेनैवाङ्कुरहेतुत्वौचित्यात्, स्वभाववादे विलक्षणबीजसद्भावेऽङ्कुरजननं, विलक्षणबीजासद्भावेऽकुराजननमित्युपपत्तेस्तत्र सहकारिलाभालाभयोरनाश्रयणात् ; न चाकुरजननपरिणतिलक्षणवैलक्षण्यं यद्वीजस्य बीजान्तरतोऽतिशयस्तदाधायकत्वं सहकारिचक्रस्य स्वभाववादिनाऽपि कल्पनीयम् , ततो वरं सहकारिचक्रस्य तत्कार्यजनकत्वमेवेति वाच्यम्, पूर्वपूर्वोपादानपरिणामानामेवोत्तरोत्तरोपादेयपरिणामहेतुत्वात् , उत्तरोत्तरोपादेयपरिणाम प्रति पूर्वपूर्वोपादानपरिणाम-" हेतुत्वादेव चोपपत्तौ कालस्यापि तत्र कारणत्वानभ्युपगमेन कालवादस्याप्रवेशात् ; न च चरमक्षणपरिणामरूपबीजादाद्यक्षणपरिणामरूपाङ्करस्यैवोत्पत्तिर्न तु द्वितीयादिक्षणपरिणामरूपाङ्कुराणां, तेषां पूर्वपूर्वाङ्कुरपरिणामत एवोत्पत्तेरिति चरमक्षणपरिणामरूपबीजस्यापि द्वितीयादिक्षणपरिणामरूपाङराजनकत्वाद् व्यक्तिविशेषमवलम्ब्यैव बीजाङ्कुरयोः कार्यकारणभावो वाच्यः, अन्यथा चरमक्षणपरिणामरूपबीजस्थापि द्वितीयादिक्षणपरिणामरूपाङ्कुरादौ व्यतिरेकव्यभिचारेणाङ्कुरत्वावच्छिन्न प्रति विलक्षणबीजत्वेन कारणत्वस्यासम्भवात्, प्रथमादिचरमपर्यन्ताकुरक्षणेप्वतद्व्यावृत्तिलक्षणव्यावृत्तिविशेषमभ्युपगम्य तदवच्छिन्नं प्रति चरमबीजक्षणाधुपान्त्याङ्कुरक्षणपर्यन्तेष्वतद्व्यावृत्तिलक्षणव्यावृत्तिविशेषमुररीकृत्य तदवच्छिन्नस्य हेतुत्वेऽङ्गीक्रियमाणे कार्यकारणतावच्छेदककोटावेकैकक्षणप्रवेशाप्रवेशाभ्यां विनिगमनाविरहेणानन्तगुरुधर्मावच्छिन्नकार्यकारणभावप्रसङ्गात् , एवं च व्यक्तिविशेषमवलम्ब्य कार्यकारणभावे अङ्कुरजातीयात् कार्याद् बीजजातीयकारणानुमानभङ्गप्रसङ्ग इति वाच्यं, चरमक्षणपरिणामरूपबीजकार्याद्यकुरसादृश्यतिरोहितवैसादृश्येनाङ्कुरादिना चरमक्षणपरिणामरूपबीजसादृश्यतिरोहितवैसादृश्यानां बीजादीनामनुमानसम्भवात् , यदि बीजं विनाऽप्यकुरं स्याद् बीजप्रयोज्यं न स्यादित्येवं विपक्षबाधकतर्कस्य प्रयोज्यप्रयोजकभावमूलकस्य सद्भावात् । आद्याङ्करकारणीभूतचरमक्षणपरिणामरूपबीजोपादानपूर्वपूर्वबीजक्षणानामपि परम्पराकारणत्वेन चरमक्षणपरिणामरूपबीजकार्याद्याङ्कुरोपादेयोत्तरोत्तराङ्कुरप्रयोजकत्वात् , ततः स्वभावहेतुकमेव जगदिति सिद्धम् , तदुक्तम्