________________
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः "कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृग-पक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रसङ्गः ?॥ १॥"
इति ॥ ६०॥ १७२॥ ॥ इति स्वभावैकान्तकारणतावादः ॥
अथ एकान्तनियतिरूपकारणतावादः॥ अथ नियतिवादिमतमुपदर्शयितुमाहनियतेनैव रूपेण, सर्वे भावा भवन्ति यत् । ततो नियतिजा ह्येते, तत्स्वरूपानुवेधतः ॥ ६१॥ १७३ ॥ नियतेनैव रूपेणेति-अन्यूनानतिरिक्तेनैव रूपेण, सजातीयविजातीयव्यावृत्तेन स्वभावानुगतेनैव रूपेणेति यावत्, सर्वे भावाः पदार्थाः, भवन्ति उत्पद्यन्ते, यत् यस्मात् कारणात् , तत् तस्मात् , हि निश्चितम् , एते भावाः सजातीय-विजातीयव्यावृत्तस्वभावानुगतरूपवन्तो भावाः, नियतिजाः नैयत्यनियामकतत्त्वान्तरसमुद्भवाः, नियतिजत्वे हेत्वन्तरमाह-तत्स्वरूपानुवेधत इतिनियतिप्रयुक्तप्रतिनियतधर्मोपश्लेषात् , अत एव तीक्ष्णशस्त्राद्युपहतानामपि मरण नियतताया अभावे न मरणं, किन्तु जीवननियततया जीवनमेव दृश्यत इति ॥ ६१ ॥ १७३ ॥ . इदमेव स्फुटीकरोति
यद् यदैव यतो यावत् , तत् तदैव ततस्तथा । नियतं जायते न्यायात् , क एतां बाधितुं क्षमः॥६२॥१७४॥ यदिति । यद् घटादिकं वस्तु, यदैव यस्मिन्नेव काले, यतः यस्माद् दण्डादिकारणात्, यावत् यावत्परिमाणमल्पदेशव्यापि बहुदेशव्याप्युत्पद्यमानमनुभूयते, तत् घटादिकं वस्तु, तदैव तस्मिन्नेव काले, ततः दण्डादिकारणात् , तथा तावत्परिमाणमल्पदेशव्यापि बहुदेशव्यापि वा, नियतं नियतिकृतम् , जायते उत्पद्यते, न्यायात् तर्कात् , कः पुरुषः, ईश्वरोऽपि वा, एतां नियति, बाधितुम् अन्यथा कर्तु, क्षमः समर्थः, प्रमाणसिद्धार्थस्यान्यथाकरणादिलक्षणबाधासम्भवात् , सजातीयविजातीयव्यावृत्तनियतरूपावच्छिन्नं प्रति