________________
५३
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः माषस्य तथायोग्यतालक्षणस्वभावाभावादेवेति; न च कार्यमानं प्रत्यदृष्टमपि कारणमिति तद्वैगुण्यादेव तत्र पाकाभाव इति वाच्यम् , दृष्टसाद्गुण्येऽदृष्टवैगुण्याभावात् , एवमप्यदृष्टवैगुण्याभ्युपगमे दृढदण्डनुन्नमपि चक्रमदृष्टवैगुण्यान्न भ्राम्येत् , तस्मात् स्वभाववैषम्यादेव कङ्कुटकपाकाभाव इत्यन्यत्र तत्समवधाने भवति न भवतीत्येवं कामचारात् स्वभाव एव कारणमिति ॥ ५९ ॥ १७१ ॥
स्वभावादेव कार्यभाव इत्यस्य दाळयातत्स्वभावात् कार्याभ्युपगमे बाधकमुपदर्शयति
अतत्स्वभावात् तद्भावेऽतिप्रसङ्गो निवारितः । तुल्ये तत्र मृदः कुम्भो, न पटादीत्ययुक्तिमत् ॥६०॥१७२॥
अतत्स्वभावादिति-तत्स्वभावभिन्नात् तत्स्वभावरहिताद् वा कारणादित्यर्थः, तद्भावे विवक्षितकार्योत्पादे, अङ्गीक्रियमाणे इति शेषः, अतिप्रसङ्गः अतिप्रसङ्गात्मकानिष्टप्रसङ्गदोषः, अनिवारितः निवारयितुमशक्यः, अर्थादबाधितः स्यात् , तत्र हेतुः-तुल्य इत्यादि । तुल्ये समाने, तत्र अतत्स्वभावत्वे, मृदः कुम्भो न पटादि मृदा घटो जायते, पटादि न जायते, इति एवम् , अयुक्तिमत् युक्तिरहितं नियामकरहित मिति यावत् , स्यादेतत्-'यद्यतत्स्वभावत्वं' तज्जननप्रयोजकमिष्येत तदा घटं प्रति यथाऽतत्स्वभावत्वं मृदस्तथा पटादिकं प्रत्यपीति मृदो घटोत्पत्तिवत् पटाद्युत्पत्तिरपि स्यात्, न चैवम् , किन्तु सामग्रीमेव कार्यजनिकामुररीकुर्मः, अश्वमाषस्य च पाकं प्रति स्वरूपयोग्यतैव नास्तीति न तस्य पाक इति चेत् ?, अत्र वदन्ति स्वभाववादिनः-अन्तरङ्ग-बहिरङ्गयोर्मध्येऽन्तरङ्गस्यैव बलीयस्त्वात् कारणत्वमिति स्वभावस्यैवान्तरङ्गत्वात् कार्यहेतुत्वं, न तु स्वभावभिन्नानां बहिरङ्गत्वात् ; न च मृत्स्वभावो यथा घटस्तथा शरावादिरपीति घट-शरावादीनां सर्वेषामपि मृत्स्वभावाविशेषादविशेषप्रसङ्ग इति वाच्यं, स्वस्थ भावः कार्यजननपरिणतिः स्वभाव इति कथ्यते, कार्यजननपरिणतिश्च कार्यैकगम्या, तथा च यदा घटो जायते तदा घटजननपरिणतिम॒त्स्वभावः, यदा शरावो जायते तदा शरावजननपरिणतिम॒त्स्वभाव इत्येवं स्वभावभेदान्न घटादिकार्याविशेषप्रसङ्गः, न चेदेवम् , अङ्कुरजननस्वभावं बीजं सर्वदैवास्तीति सहकारिमध्यमध्यासीनं बीजं, यथाऽङ्करं जनयति तथा केवलमपि जनयेदिति सहकार्यसमवधानेऽपि अङ्कुरजननस्वभावाद् बीजादडरोत्पादप्रसङ्गः; अङ्कुरं प्रति बीजस्य बीजत्वेन कारणत्वेऽपि