________________
५२
शास्त्रवार्तासमुच्चयः ।
[ द्वितीयः
एतदेव भावयति
सर्वे भावाः स्वभावेन, स्वस्वभावे तथा तथा । वर्तन्तेऽथ निवर्तन्ते, कामचारपराङ्मुखाः || ५८ ॥ १७० ॥
सर्वे भावा इति - अत्र 'सर्वभावाः' इति समस्तोऽपि पाठः, अर्थे तु न भेदः, सर्वे पदार्थाः सर्वपदार्था इत्यर्थयोर्वस्तुत ऐक्यात्, स्वभावेन आत्मीयया सत्तया, स्वगतेन हेतुगतेन वा निमित्तेनेत्युपाध्यायाः, यदा कारणमिति पूर्वपद्यगतस्य कादाचित्कत्वनियामक इत्यर्थस्तदा स्वगतेन निमित्तेनेत्यर्थः, यदा तु कारणमित्यस्य मुख्योऽर्थः परिगृह्यते तदा हेतुगतेन निमित्तेनेत्यर्थोऽवसेय इति तदभिप्रायः, स्वस्वभावे आत्मीयाऽऽत्मीयभावे, आत्मीयाऽऽत्मीयसत्तायामिति यावत्, तथा तथा तेन तेन प्रकारेण, विशिष्टप्रतिनियतसंस्थानादिरूपेणेति यावत्, वर्तन्ते भूत्वा तिष्ठन्ति, यथा स्वभावेनैव भूत्वा तिष्ठन्ति तथा स्वभावेनैव नाशकाले निवर्तन्ते नाशभाजो भवन्ति; किंभूतास्ते भावा इत्यपेक्षायामाह - कामचारपराङ्मुखा इति-अनियतभावनिरपेक्षा इत्यर्थः ॥ ५८ ॥ १७० ॥ हेत्वन्तरे कामचारं स्वभावस्य सामर्थ्यं च प्रकटयति
न विनेह स्वभावेन, मुद्रपक्तिरपीष्यते ।
तथा कालादिभावेऽपि, नाश्वमाषस्य सा यतः ॥ ५९ ॥ १७१ ॥ नविनेति । इह जगति, स्वभावेन विना तथायोग्यतालक्षणस्वभावमन्तरेण, तथा कालादिभावेऽपि अभीष्टकालादिसन्निधानेऽपि प्रतिनियतकालव्यापारादिघटितसामग्रीसमवधानेऽपि, मुद्रपक्तिरपि मुगाख्यद्विदलविशेषपाकोsपि, नेष्यते नेष्टः, प्रतिनियतकालव्यापारादिसामग्री समवधाने दृष्टस्य मुद्गपाकस्य कुतो नेष्टत्वमित्यपेक्षायामाह - नाश्वमाषस्य सा यत इति - तथाकालादिभावेऽपीति घण्टालोलन्यायेनोभयत्रान्वेति यतः - यस्मात् कारणात्, कटकस्य, सा-पक्तिः, प्रतिनियतकालव्यापारादिसामग्रीसमवधानेऽपि तथायोग्यतालक्षणस्वभावाभावान्न भवतीत्यर्थः यावता कालेन मुद्गादिपाको जायते तावान् कालोऽपि तत्र वर्तते, यया क्रियया विलक्षणाग्निसंयोगोऽन्यत्र तया क्रियया विलक्षणाग्निसंयोगजननयोग्ययाऽश्वमाषे विलक्षणाग्निसंयोगो न भवतीत्यस्य वक्तुमशक्यत्वेन विलक्षणाग्निसंयोगादिकमपि तत्र वर्तत एव, एवमपि पाकाभावोऽश्व
अश्वमाषस्य
,