________________
स्तबकः ]
स्याद्वादवाटिकाटीका सङ्कलित.
किल सत्यम्, असौ स्वभावः कारणं सर्वकार्यगतकादाचित्कत्व नियामकः, यथा च नित्यानामाकाशत्वादीनां प्रतिनियताकाशादिदेशवृत्तित्वरूपं काचित्कत्वं स्वभावनियम्यमेव, न तु स्वभावेतर नियम्यं, गगनादिभिन्ने आकाशत्वादेः सत्त्वे तस्य गगनादिस्वभावत्वमेव न स्यादित्याकाशत्वादेर्गगनादिभिन्नदेशवृत्तित्वे बाधकम्, तथा घटादीनां पूर्वापरकालावृत्तित्वे सति वर्तमानकालवृत्तित्वात्मकप्रतिनियतकालवृत्तित्वरूपकादाचित्कत्वमपि स्वभावनियम्यमेव, न तु स्वभावेतरनियम्यम्, घटादिजन्यभिन्ने नित्ये गगनादौ कादाचित्कत्वस्य सत्त्वे तस्य घटादिस्वभावत्वमेव न स्यादिति कादाचित्कत्वस्य गगनादिवृत्तित्वेऽपि बाधकं समस्त्येव; ननु घटादीनां नियतपूर्वोत्तरावधिकत्वे सत्येव कादाचित्कत्वस्वभावो भवितुमर्हति नान्यथेति योऽसावस्य नियमेन पूर्वोऽवधिः स नियतपूर्ववर्तित्वात् कारणमेवेति चेत् ? नतद्गतोपकारजनकस्यैव तत्कारणत्वात्, अन्यथाऽतिप्रसङ्गादित्यवधेर्नियतपूर्ववर्तित्वेऽपि
गतोपकारजनकत्वेन तदकारणत्वात् ; ननु घटस्य भवनस्वभावत्वे तद्दिन इव तत्पूर्वदिनेऽपि भवनं स्यात्, एवं तत्पूर्वपूर्वदिनेऽपीत्यनादित्वं स्यात्, अनादेश्व भावस्य नाशासम्भवान्नित्यत्वं स्यात्, तत्पूर्वदिनेऽभवनस्वभावत्वे तद्दिनेऽप्यभवनस्वभावसद्भावान्न जायेतेत्युभयथाऽपि कादाचित्कत्वस्वभावक्षतिरिति चेत् ?, नतदहरेवानेन घटेन भवितव्यमित्येवं तदहर्घटितभवनस्वभावस्यैव तस्याभ्युपगमात्, तदहश्च नान्यदा समस्तीति तद्वटितभवनस्वभावोऽपि नान्यदेत्यन्यस्मिन् दिने तद्भवनापत्त्यसम्भवात्। अथवा स्वभावः कार्यमात्रे कारणमिति कारणमित्यस्य मुख्य एवार्थः, उपादानात्मककारणस्वभावस्यैवोपादेयात्मककार्यगतस्वभावरूपोपकारजनकस्वोपादेय हेतुत्वात् ; न चोपकारात्मकेऽपि कार्ये स्वभावस्य जनकत्वं तदा भवेद् यदि तद्वतोपकारजनकत्वं स्यादेवं तद्वतोपकारजनकत्वमपि तदा स्याद् यदि तद्गतोपकारलक्षणकार्यगतोपकारजनकत्वं स्यादित्यनवस्था प्रसज्येतेति वाच्यं तस्य स्वत एवोपकृतत्वेन तद्गतोपकारजननमन्तरेणैव स्वभावस्य तज्जनकत्वसम्भवात्, तथा च दण्डरूपादीनां घटोत्पत्तेः पूर्वं नियमेन भावान्नियतपूर्वावधित्वेऽपि अन्यथासिद्धत्वादेव न कारणत्वं, तथा दण्डादीनामपि नियतपूर्वावधित्वेऽप्यवश्यक्लृप्तनियतपूर्ववर्तिस्वभावभिन्नत्वेनान्यथासिद्धत्वादेव न कारणत्वम्, यथा चेन्धनस्य पाकं प्रति कारणत्वाभावेऽपि प्रयोजकत्वमुपादाय “इन्धनात् पाकः" इति व्यवहारः, तथा दण्डस्य घटं प्रति कारणत्वाभावेऽपि घटं प्रति प्रयोजकत्वमवलम्ब्य दण्डाद् घट इति व्यवहार इति न व्यवहारबाधोऽपीति ॥ ५७ ॥ १६९ ॥
2
५१