________________
शास्त्रवार्तासमुच्चयः। [द्वितीयः नियतपूर्ववर्तित्वमानं कारणत्वं, किन्तु अन्यथासिद्धिशून्यत्वे सति नियतपूर्ववर्तित्वं, तत्र अवश्यक्लप्तनियतपूर्ववर्तिन एव कार्यत्वसंभवे तद्भिन्नत्वमन्यथासिद्धिरिति कार्य प्रति अवश्यक्लप्तनियतपूर्ववर्तिनः पूर्वक्षणादेव तदुत्तरक्षणवर्तिनः कार्यस्य सम्भवे सति तद्भिन्नत्वादन्येषामन्यथासिद्धत्वेन तच्छून्यत्वाभावात् कारणत्वासम्भवात्, तथा च पूर्वक्षणभिन्नानामन्येषामन्यथासिद्धत्वात् कारणत्वाभावेऽपि प्रयोजकत्वं भवत्येवेति ततो देशप्रतिनियम उपपद्यते, अत एव न पटत्वाद्यवच्छिन्नस्याकस्मिकत्वापत्या तदवच्छिन्नं प्रति हेतुतासिद्धिः, एतावत्सत्त्वेऽवश्यमेतद्धर्मावच्छिन्नस्योत्पत्तिरिति निश्चयाविषयत्वमेवाऽऽकस्मिकत्वं, तत एव च तद्धर्मावच्छिन्नं प्रतीष्टसाधनताज्ञानाभावात तत्कारणसङ्घटने प्रवृत्त्यनुपपत्तिः, तत्र च कृतिसाध्यताज्ञानाभावात् तदुत्पत्तये प्रवृत्त्यनुपपत्तिः, न चैवं प्रकृते, पूर्वक्षणेतरेषां कारणत्वाभावेऽपि प्रयोजकत्वस्य सद्भावेन तदवच्छिन्ननियतपूर्ववर्तित्वनिश्चयादेतावत्सत्त्वेऽवश्यं पटोत्पत्तिरिति निश्चयादेवाऽऽकस्मिकत्वपरिहारेणोक्तनिश्चयत एव कृतिसाध्यताज्ञानसम्भवेन तद्धर्मावच्छिन्ने प्रवृत्तिसम्भवात् , अनन्यथासिद्धत्वानिवेशप्रयुक्तलाघवेनेष्टप्रयोजकताज्ञानमेव कार्यार्थमुपादानादिसङ्घटनविषयकप्रवृत्तिहेतुरिति क्षणेतरेष्वपीष्टप्रयोजकताज्ञानसद्भावात् प्रवृत्युपपत्तेः, इदमेतावत्कारणजन्यमित्यप्रामाणिकव्यवहारानुपपत्तिलक्षणमाकस्मिकत्वं तु न बाधकम् , प्रयोजकेऽपि दोषात् कारणत्वभ्रमेणाप्रामाणिकव्यवहारस्य सम्भवेन तदनुपपत्तेरभावात् , पूर्वक्षणेतरेषां कारणत्वानभ्युपगमनमेव युक्तम् , अनन्तनियतपूर्ववर्तिध्वनन्यथासिद्धत्वाकल्पनेन लाघवाद्" इत्याहुः ॥ ५६ ॥ १६८ ॥
॥ इति कालवादः ॥
अथ खभाववादः॥ अथ स्वभावकान्तकारणतावादिमतमुपदर्शयतिन स्वभावातिरेकेण, गर्भबालशुभादिकम् । यत् किञ्चिजायते लोके, तदसौ कारणं किल ॥५७॥१६९॥ न स्वभावातिरेकेणेति-नजो 'जायते' इत्यनेनान्वयः, स्वभावातिरेकेणस्वभावमन्तरेण स्वभावमुल्लङ्घयेति यावत्, यत् यस्मात् कारणात्, गर्भ-बालशुभादिकमित्यत्रादिपदान्नारकाद्यशुभकार्यपरिग्रहः, किश्चित् किमपि, कार्य जन्यम्, लोके भुवनत्रयेऽपि, न जायते नैवोत्पद्यते, तत् तस्मात् कारणात् ,