________________
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः तत्तदुपाधिविशिष्टस्य कालस्य हेतुत्वमिति तत्तदुपाधीनां युगपदसन्निधानान्न युगपत् सर्वकार्योत्पत्तिप्रसङ्गः, तदा कालवैचित्र्यनियामकतयोपाधिविशेषाणामवश्याभ्युपगन्तव्यत्वेन तेषां प्रतिनियतानां प्रतिनियततत्तत्कार्यकारणत्वमावश्यकमिति गतं कालमात्रकारणत्ववादेनेति चेत् ?, अत्र नव्याः-"क्षणात्मकः कालोऽतिरिक्त एवाभ्युपेयो न तु काले स्वजन्यविभागप्रागभावविशिष्टकर्मण उपाधित्वमुपगम्य तद्विशिष्टस्य कालस्य क्षणरूपत्वं, तथा सति विभागकाले स्वजन्यविभागप्रागभावाभावेन तद्विशिष्टकर्मलक्षणोपाध्यभावात् तद्विशिष्टकाललक्षणक्षणस्याप्यभावात् तदानीं तत्क्षणनिमित्तककार्याभावापत्तेः, तदानीं स्वजन्यपूर्वसंयोगनाशप्रागभावावच्छिन्नविभागविशिष्टकर्मण उपाधित्वमभ्युपगम्य तद्विशिष्टकालस्य क्षणरूपताश्रयणेऽननुगमप्रसङ्गात् , अतिरिक्तक्षणरूपाणां कालानामानन्त्येन प्रतिनियतस्य क्षणस्य तत्क्षणवृत्तिकार्ये तत्पूर्वक्षणत्वेन कारणत्वं, तत्क्षणवृत्तित्वं च यथा तत्क्षणभिन्ने कार्यान्तरे तथा स्वस्मिन्नपि, 'इदानीं घटः, इदानीं पटः' इत्यादिव्यवहारवत् 'इदानीं क्षणः' इत्यपि व्यवहारात् कालिकसम्बन्धेनाधाराधेयभावस्य स्वस्मिन्नपि सम्भवात् , तथा च तत्तत्क्षणानां तन्नाशानां च तत्तत्क्षणवृत्तित्वरूपकार्यतावच्छेदकधर्माकान्तत्वेन तत्तत्पूर्वक्षणजन्यत्वान्न क्षणिकत्वानुपपत्तिः, उक्तदिशा कार्यकारणभावव्यवस्थितौ च क्षणिकेनैवं क्षणेन कार्यविशेषस्योत्पत्तिसंभवान्नातिरिक्तहेतुसिद्धिः, न च तत्क्षण एव तन्तौ पट उत्पद्यते कपाले च घट उत्पद्यत इति देशनियमार्थं समवायेन पटादिकं प्रति तादात्म्येन तन्त्वादिक कारणमिति क्षणव्यतिरिक्तकारणसिद्धिरिति वाच्यम्,
"नित्यसत्त्वा भवन्त्येके, नित्यासत्त्वाश्च केचन ।
विचित्राः केचिदित्यत्र, तत्स्वभावो नियामकः ॥ १॥" इति स्वभाववादिना कादाचित्कत्वस्य स्वभावनियम्यत्वमुपेयते, तत्रैवम्
“वह्निरुष्णो जलं शीतं, समस्पर्शस्तथाऽनिलः ।
केनेदं रचितं तस्मात् , स्वभावात् तद्व्यवस्थितिः ॥" इति तदीयवचनमवलम्ब्य स्वभावादेव प्रतिनियतदेशवृत्तित्वलक्षणस्य क्वाचित्कत्वस्य नित्य इवानित्येऽपि स्वभावत एव संभवात् , हेतु-हेतुमतोः पूर्वापरीभावनिमित्तकस्य प्रतिनियततत्तत्क्षणवृत्तित्वरूपस्य कादाचित्कत्वस्यैव हेतुनियम्यत्वादन्यत्र देशेऽन्यापत्तेरभावात् , ननु यथा तत्क्षणवृत्तिकार्ये तत्पूर्वक्षणस्य नियतपूर्ववर्तित्वं तथा समवायादिकारणान्तराणामपीति कथं तेषां कारणत्वप्रतिक्षेप इति चेत् ?, नहि
४ शास्त्र०स०द्वि०