________________
शास्त्रवार्तासमुच्चयः ।
[ द्वितीयः
उक्तार्थदायान्यकारणेभ्यः पराभिमतेभ्यः कालस्य विशिष्टं सामर्थ्य -
४८
माविष्करोति
किञ्च कालादृते नैव, मुद्रपक्तिरपीक्ष्यते । स्थाल्यादिसन्निधानेऽपि, ततः कालादसौ मता ॥ ५५ ॥ १६७॥
किञ्चेति - युक्तयन्तराभ्युच्चये, कालादृते कालमन्तरेण, नैवेत्यस्य 'ईक्ष्यते' इत्यनेन सम्बन्धः, स्थाल्यादिसन्निधानेऽपि पराभिमतपाकोपयुक्तपाकपात्रादिरूपकारणसमवधानेऽपि, स्थाल्यादीत्यादिपदेन विलक्षणवह्निसंयोगादिपरिग्रहः, मुक्तिरपि आस्तामन्यत्, मुद्गानां द्विदलविशेषाणां विलक्षणरूपरसादिलक्षणविकृतिपरिणतिरपि, नैवेक्ष्यते नैव दृश्यते, 'इक्ष्यते' इत्यस्य स्थाने 'इष्यते' इति पाठस्तु नातीवोपयुक्तः, दर्शनाभावोपदर्शनेन प्रमाणाभावप्रतिपादनपरत्वेन 'ईक्ष्यते' इत्यस्यैवोपयुक्तत्वात्, ततः यत एवं तस्मात्, असौ मुद्रपक्तिः, कालात्मना कालमात्रजन्याऽभ्युपगता । न च स्थाल्यादिसन्निधानेऽपि मुगपत्तिर्यन्नेक्ष्यते तत्र मुद्गपक्तिजनकविलक्षणाग्निसंयोगाभावादेव मुद्गपक्त्यभाव इति वाच्यं तदा मुद्गपक्तिजनक विलक्षणाग्निसंयोगः कस्मान्न भवतीत्यपेक्षायां तज्जनककारणान्तरस्यान्वेषणे व्यग्रतापत्तेः, तत्रापि तज्जननकालो नेदानीमतो न विलक्षणाग्निसंयोग इत्यस्यावश्यवक्तव्यत्वेन तदर्थमावश्यकत्वेन कालस्यैव मुद्गपत्तिजनकत्वमुचितमिति ॥५५॥ १६७॥
यदि कालो गर्भादौ कारणं न भवेत्, गर्भादिकं सर्वमव्यवस्थितं स्यादित्यस्यापाद्यापादकयोर्वैयधिकरण्यादसंभवेऽपि यदि गर्भादिकं कालासाधारणकारणकं न स्यादव्यवस्थितं स्यादिति विपक्षे बाधकमुपदर्शयति
कालाभावे च गर्भादि, सर्वं स्यादव्यवस्थया ।
परेष्टहेतु सद्भावमात्रादेव तदुद्भवात् ।। ५६ ।। १६८ ।
कालाभावे चेति-कालस्य कार्यमात्रं प्रत्यसाधारणत्वानङ्गीकारे चेत्यर्थः, ततः किमित्यपेक्षायामाह - गर्भादि सर्वमिति, अव्यवस्थया स्यात् अनियमेन भवेत्, तत्र हेतुः परेष्टहेतुसद्भावमात्रादेव तदुद्भवादिति पराभिमतमातापित्रादिकारणसमवधानमात्रा देवाविलम्बेन गर्भाद्युत्पादापत्तेरित्यर्थः ।
ननु कालस्यैकस्यैव कार्यमात्रं प्रति कारणत्वे तस्य सर्वदा भावात् तन्मात्रकारणकस्य कार्यमात्रस्यैव युगपदुत्पत्तिप्रसङ्गतोऽव्यवस्था दुरुद्वारा, यदि च तत्तत्काये