SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः जन्यकालोऽपि शीतोष्ण-वर्षादिलक्षणः कालव्यतिरेकेण न भवति, “न कालमन्तरेण गर्भबालशुभादिकम्” इति श्रीहरिभद्रसूरिव्याख्यानतो ज्ञायते यदुत "गर्भकालशभादिकम्" इत्यस्य स्थाने "गर्भबालशुभादिकम्" इति तत्सम्मतः पाठः, तत्र बालो नाम जन्मानन्तरं बालावस्थोनषोडशवर्षपरिमिता, साऽपि कालव्यतिरेकेण न भवति, बालावस्था च युवाद्यवस्थान्तराणामप्युपलक्षणम् , अवस्थामात्रस्यैव कालत एव भावात् , अन्यथाऽतिप्रसङ्गात् , तथा शुभादिकमित्यत्रादिपदादशुभस्याप्युपग्रहात् स्वर्ग-नरकादिकमपि कालव्यतिरेकेण न भवति, किं बहूक्तेन । कार्यमानं स्वस्यासाधारणधर्मेण गृहीत्वा तत् प्रति कालस्य कारणत्वं न जन्मसहस्रेणापि वक्तुमशक्यमतो जन्यत्वेन सामान्यधर्मेण जन्यमात्रमुपादाय तत् प्रति कालस्य कारणत्वमवसेयमित्याशयेनाह- यत् किञ्चिदिति-यत् किमपि घटादिकं लोके जायते लोके प्रादुर्भवति तत् सर्व कालव्यतिरेकेण न भवति, कालस्य कारणत्वानभ्युपगमे यागादिकानन्तरमेव स्वर्गादिकं भवेत् , दण्डाद्येकैककारणसमवधानानन्तरमेव घटादिकं स्यादिति, तत् तस्मात् कारणात् , असौ कालः, किल इति सत्ये, सत्यं कारणं कार्यमानं प्रति कारणम् , अन्यस्य त्वन्यथासिद्धत्वादुपचरितमेव कारणत्वं, तन्न सत्यमित्यर्थः ॥ ५३ ॥ १६५ ॥ एतत्समर्थनपरं कार्यमात्रोत्पत्ति-स्थिति-विनाशजनकत्वस्य कालगतस्य प्रतिपादनप्रवणप्राचीनपद्यसमानानुपूर्वीकपद्यमुल्लिखति कालः पचति भूतानि, कालः संहरति प्रजाः । • कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥५४॥१६६॥ काल इति । भूतानि उत्पत्तिमन्ति वस्तूनि, पचति परिणति नयति प्रकृतपर्यायोपचयं करोतीति, तथा कालः प्रजाः संहरति प्रजाः पर्यायान्तरेण स्थापयति, प्रकृतपर्यायान्तरपर्यायान्तरभाजः करोतीति यावत् , तथा कालः सुप्तेषु जागर्ति आपदमभिरक्षतीति हरिभद्रसूरिः, उपाध्यायस्तु 'सुप्तेषु' इत्यस्य 'अजनितकार्येषु पराभिमतकारणेषु सत्सु' इति, जागर्ति इत्यस्य 'विवक्षितकार्यमुपदधाति' इत्यर्थमाविष्कृतवान् , तथा कालः हि निश्चितम् , दुरतिक्रमः नान्यथा कर्तुं शक्यः, अर्थात् स्वकार्येषूत्पत्ति-स्थिति-प्रलयेषु अनपलपनीयकारणताकः कालः, उत्पत्ति-स्थिति-प्रलयेषु न कारणमित्येवं न केनाप्यपलपनीयः कालो भवतीति ॥ ५४ ॥ १६६ ॥
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy