________________
५६
शास्त्रवार्तासमुच्चयः ।
"उप्पलदल सयवेहे व्व दुव्विभावत्तणेण पडिहाई | समयं व सुक्कसक्कुलिदसणे विसयाणमुवलद्धी ॥” [ उत्पलदलशतवेध इव दुर्विभावेन प्रतिभाति । समकं वा शुष्कशष्कुली दशने विषयाणामुपलब्धिः ॥ -विशेषावश्यकभाष्यगाथा - २९९]
www
[ प्रथमः
अभ्यासस्थलेऽप्ययं पुरुष इति निर्णयेऽयं पुरुष इति प्रयोगे कस्यचिदाकाङ्क्षायां कर-चरणादिमत्वादिति प्रयोगात् तदनुगुणेहादेरनुमानात् तत्र तत्सत्वं सिद्ध्यतीत्याहुः" इति ।
,,,
यथा च जातिस्मरणेन पूर्वापरभवानुगामितया शरीरव्यतिरिक्तस्य चैतन्य-स्वभावस्याऽत्मनः सिद्धिस्तथा सद्योजातस्य बालस्य स्तन्यपानप्रवृत्त्यन्यथानुपपत्त्याऽपि सिद्धि:, तथाहि प्रवृत्तित्वावच्छिन्नं प्रति इष्टसाधनताज्ञानस्य कारणत्वमन्वयव्यतिरेकाभ्यामवधारितमिति सद्योजातस्य बालस्य स्तन्यपानप्रवृत्तिरिष्टसाधनताधी साध्येत्यनुमीयते बालस्य स्तन्यपानगोचरा प्रवृत्तिरिष्टसाधनताज्ञानजन्येत्यनुमितिश्च यत्र यत्र प्रवृत्तित्वं तत्र स्वगोचरविशेष्य केष्टसाधनताज्ञानजन्यत्वमिति व्याप्तिस्मरणजन्येत्येवं रीत्या या परस्यावगतिस्तया यद्यपि न पूर्वापरभवानुयाय्यात्मसिद्धिः परस्यैकभव एव स्वप्रवृत्ताविष्टसाधनताज्ञानजन्यत्व - प्रवृत्तित्वयोर्व्यायनुभवतो व्याप्तिस्मरणस्य सम्भवात्, किन्तु बालस्य स्तन्यपाने इष्टसाधनताज्ञाने सत्येव स्तन्यपाने प्रवृत्तिर्भवितुमर्हति प्रवृत्तिं प्रति इष्टसाधनताज्ञानस्य कारणत्वेन तद्रूपकारणमन्तरेण तत्कार्यप्रवृत्तेरसम्भवात्, बालस्य स्तन्यपानं मदिष्टसाधनमिति ज्ञानं च न प्रत्यक्षरूपम्, तस्य तदानीं कारणताप्रत्यक्षजनकस्यान्वयव्यतिरेकग्रहस्याभावात् किन्त्वनुमितिरूपम्, तच्च व्याघ्यादिस्मृतिजन्यम्, वर्तमानभवे सद्योजातस्य बालस्य केनचिद्धेतुना सममिष्टसाधनत्वरूपसाध्यस्याविनाभावोऽनुभावकाभावान्नानुभवेन ग्रहीतुं शक्य इत्येतजन्मनि न व्याप्तेरनुभव इति प्राग्भवीयानुभवसाध्या व्याप्त्यादिस्मृतिरिति सरागस्यैव जन्मदर्शनादित्येतत्पर्यवसितेन " वीतरागजन्मादर्शनात्" [ ] इति न्यायेन भवान्तरानुगाम्यात्म सिद्धिरित्यन्ये वर्णयन्ति । वस्तुतो यत् किमपि स्मरणं तत् कालान्तरानुभूतस्यैव भवति नाननुभूतस्येति स्मृतित्वावच्छिन्नं प्रति अनुभवत्वावच्छिन्नं कारणमिति पूर्वकाले यत्रानुभवस्तत्रैवोत्तरकाले स्मरणमिति स्मरणान्तरान्यथानुपपत्त्याऽपि लोकसिद्ध एवाऽऽत्माऽभ्युपेयः, अन्येनानुभूतस्या
"