SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ स्तबक: :] स्याद्वादवाटिकाटीका सङ्कलितः [ इत एव ते सर्वे भवन्ति भिन्नाश्च नैव समकालम् । न व्यतिक्रमश्च तेषां नान्यथा ज्ञेयसद्भावः ॥ " " -विशेषावश्यकभाष्यगाथा-२९७ ] ॥ ७ ॥ नन्वभ्यस्ते पुरुषेऽयं पुरुष इति प्रथममेव निर्णयः समुन्मीलति, अनुभूते च संस्कारोद्बोधात् प्रथममेव स पुरुष इति स्मृतिरुल्लसति, अनुभूयते च - झटित्येचायं पुरुषो निरणायि, झटित्येव चैवमस्मार्षमिति च, तथा च कथमन्यतराभावे न वस्तुभावज्ञानम्, आह च "अभत्थेऽवाओ चिय, कत्थइ लक्खिज्जइ इमो पुरिसो । अण्णत्थ धारण चिय, पुरोवलद्धे इमं तं ति ॥" [ अभ्यस्तेऽपाय एव कचिलक्ष्यतेऽसौ पुरुषः । अन्यत्र धारणैव पुरोपलब्धे इदं तदिति ॥ ५५ - विशेषावश्यकभाष्यगाथा - २९८] अत्रोच्यते WWW. “अभ्यस्ते निर्णयस्मृत्योर्लक्ष्यः सौक्ष्म्येण न क्रमः । पद्मपत्रंशतच्छेदे यथा वाऽन्यत्र बुद्धिषु ॥ ८ ॥” उक्तापाय- स्मृत्योरवग्रहेहादिष्वीहादेः कालसौक्ष्म्यादलक्षणेऽप्युक्त क्रमस्य प्रमाणसिद्धत्वान्न तत्र तदपलापः कर्तुं शक्यः, नहि पद्मपत्रशतच्छेदे सत्यपि कालभेदे तदलक्षणेन तदभावो नाम, नवा दीर्घशुष्क शष्कुली भक्षणे तद्रूपदर्शनतजनितशब्दश्रवण- तद्गन्धाघ्राण- तद् सास्वादन - तत्स्पर्शोपलब्धीनां यौगपद्याभि"मानेऽपि कारणक्रमनियतस्तत्क्रमः प्रमाणसिद्धोऽपि नास्तीति वक्तुं शक्यते, एकदैकोपयोगस्वभावत्वान्मनसः सर्वेन्द्रियेषु तदसम्बन्धादाशु सञ्चारित्वेनैव तेनाशुकार्यजननात् तथा च पारमर्षम् - " णो मणे देवासुरमणुआणं तंसि तंसि समयंसि त्ति" [नो मनो देवासुरमनुजानां तस्मिन् तस्मिन् समये इति । ] ननु भवतां मनसः शरीरख्यापित्वेन सर्वदा सर्वेन्द्रिय संयोगाद् युगपदनेकज्ञानोत्पत्तिदुर्वारा, तदणुत्वाभ्युपगम एवेन्द्रियेषु तत्संयोगक्रमेण ज्ञानक्रमसंभवादिति चेत् ? न - अणुत्वाभ्युपगमेऽपि तस्य रसनेन्द्रियसंयोगकाले त्वक्संयोगस्य दुर्निवारत्वाद् युगपदुभयज्ञानोत्पत्तेर्दुर्निवार्यत्वात्, अदृष्टवैचित्र्य महिनैव तद्वारणे च चित्रोपयोगक्रमादेव ज्ञानक्रम इति युक्तमभ्युपगन्तुमिति दिक् । तदिदमभिप्रेत्याह "
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy