________________
शास्त्रवार्तासमुच्चयः ।
[ उत्पलदलशतवेध इव दुर्विभावत्वेन प्रतिभाति । समकं वा शुष्कशष्कुलीदशने विषयाणामुपलब्धिः ॥ - विशेषावश्यकभाष्यगाथा - २९९ ] इति ।
एतद्विषये श्रीमन्तो यशोविजयोपाध्याया इत्थं व्यावर्णयाञ्चकुः - "अथावग्र हादीनां सूत्रोक्तमनियमे हेतुमाह
५४
व्यतिक्रमोत्क्रमौ नैतैनैतेषां तत्त्वनिर्णयः ।
नेहं ज्ञेयस्वभावोऽपि तदेते नियतक्रमः ॥ ७ ॥
;
अनानुपूर्वीभवनं व्यतिक्रमः, पश्चानुपूर्वीभवनमुत्क्रमः, अन्यतरवैकल्यं शून्य" स्वम्, एतैर्वस्तुनस्तत्त्वनिर्णयो न स्यात्, तदेते एव वस्तुनिर्णयाय सर्वेऽपि क्रमनियमेनान्वेषणीयाः, नह्यनवगृहीतमीह्यते, धर्मिणोऽप्रसिद्धौ निरालम्बनविचाराप्रवृत्तेः; न चानीहितं निश्चीयते, तस्य विचारपूर्वकत्वात् न च विचारं विनाऽपि कारणमहिम्ना तदुत्पादो युक्तो विचारस्यापि तत्कारणत्वेन तद्विरहे कारणमहिम्न एवासिद्धेः; न चानिश्वितं धार्यते, अन्यथा सन्देहादपि तत्प्रसङ्गादिति; वस्तुनोऽपि च सामान्य विशेषस्वभावस्तथाज्ञानयोग्यतयैव व्यवस्थित इति तस्य तथाभावो युक्तः; यदाह
“उक्कमओ इक्कमओ, एगाभावे वि वा ण वत्थुस्स । जं सब्भावाहिगमो, तो सव्वे णियमियकमा य ॥" [ उत्क्रमतोऽतिक्रमतः, एकाभावेऽपि वा न वस्तुनः । यत् स्वभावाधिगमः ततः सर्वे नियमितक्रमाश्च ॥ -विशेषावश्यकभाष्यगाथा - २९५ ]
हिज णाऽगहियं जइ नाणीहियं न याऽणायं । धारिज जं वत्थं तेण कमोऽवग्गहाईओ ॥" [ ते नागृहीतं, ज्ञायते नानीहितं न चाज्ञातम् । धार्यते यद् वस्तु, तेन क्रमोऽवग्रहादिकः ॥"
- विशेषावश्यकभाष्यगाथा - २९६]
[ प्रथमः
wwww
"ए तो चि ते सव्वें भवन्ति भिन्ना य णेव समकाल । न वक्कमो य तेसिंण अवहा नेव सब्भावो ॥"