________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः उक्तमेदार्थ स्पष्टदृष्टान्तावष्टम्भेन निष्टङ्कयति
लोकेऽपि नैकतः स्थानादागतानां तक्ष्यते ।
अविशेषेण सर्वेषामनुभूतार्थसंस्मृतिः ॥४१॥ लोकेऽपीति-इह लोकेऽपीत्यर्थः। एकतः स्थानात् विवक्षितैकग्राम-नगरादेः । आगतानां सर्वेषां प्राणिनाम् । न तथेक्ष्यते अनुभूतार्थसंस्मृतिरविशेषेण न दृश्यते, किन्तु कस्यचित् पटुमतेरत्यन्तमेधाशालिनस्तद्रामस्थानुभूतानां यावतामपि पदार्थानां स्मृति मान्तरगतस्यापि भवति, कस्यचित् त्वल्पमेधाविनोऽनुभूतपदार्थानां मध्यात् कतिपयपदार्थस्यैवातिहृद्यस्य स्मृतिरुपजायते, विस्मरणशीलस्य तु मन्दमतेरनुभूतस्य कस्यचिदपि पदार्थस्य स्मृतिनैवोपजायत इति विशेषो दृश्यते, तादृशविशेषस्य यथा चित्रकर्मविपाकप्रयोज्यत्वं तथा जात्यस्मरणस्यापि चित्रकर्मविपाकप्रयोज्यत्वम् । अथ तत्र दृष्टविशेषस्थले यदंशे संस्कारोबोधस्तदंशे स्मरणमित्यत्यन्तमेधाविनोऽनुभूतेषु सर्वेषु पदार्थेषु संस्कारोद्वोधतः सर्वेषामनुभूतानां स्मरणम् , अल्पमेधाविनश्चानुभूतकतिपयपदार्थ एव संस्कारोबोध इति कतिपयपदार्थस्यैव स्मरणम् , नष्टचित्तस्य त्वनुभवेन संस्कारो न जायत एव, जातोऽपि लुप्त एव, अलुप्तोऽपि नोझुद्ध इत्युद्बुद्धसंस्कारस्य कुत्राप्यनुभूतपदार्थेऽभावान्न कस्याप्यनुभूतस्य स्मरणमित्येवं विशेषस्यान्यथैवोपपत्तौ किं तत्प्रतिबन्धकादृष्टकल्पनेनेति चेत् ? सत्यम्-उद्बोधकानामपि स्मृत्या. वरणक्षयोपशमाधायकतयैवोपयोगात् , स्मृत्यावरणकर्मक्षयोपशमस्यैव स्मृत्यन्तरङ्गहेतुत्वात् , उद्बोधकमन्तराऽपि स्मृत्यावरणकर्मक्षयोपशमपाटवात् झटिति स्मृत्युत्पत्तिदर्शनात् , संस्कारश्वोत्कर्षतः षट्षष्टिसागरोपमस्थितिकमतिज्ञानभेदान्तःपाती समतिक्रान्तसंख्यातभवावगमस्वरूपमतिज्ञानविशेषजातिस्मरणार्थ न प्राग्भवीय उपयुज्यते, किन्तु स्मृतिसामान्येऽनुभवव्यापाररक्षार्थं जातिस्मरणनियतेहादिचतुष्टयान्तर्भूत एव, तथाविधक्रमानुविद्धस्यैव छद्मस्थोपयोगस्य साधनात् , कचिदपायमात्रस्य वचन धारणामात्रस्य .स्फुटत्वेऽपि दोषादन्यानुपलक्ष. णात् ; यदाह भगवान् जिनभद्रगणिक्षमाश्रमणः
"उप्पलदलसयवेहे व्व दुन्विहावत्त सहिहाहा! समयं व सुक्कसक्कुलिदसणे विसयाणभूवलखी मार
www