________________
शास्त्रवार्तासमुच्चयः।
[प्रथमः आत्मनो लोकसिद्धत्वे न विप्रतिपत्तव्यमित्यावेदयितुं तस्य लोकसिद्धत्वं स्पष्टयति
नात्मापि लोके नो सिद्धो, जातिस्मरणसंश्रयात् ।
सर्वेषां तदभावश्च, चित्रकर्मविपाकतः ॥४०॥ नात्माऽपीति-आत्मपदानन्तरं श्रूयमाणमपिपदं लोकपदानन्तरं योज्यम् , लोकपदं च शब्द-तदुपजीविप्रमाणातिरिक्तप्रमाणानुसारिलोकपरम् , तथा च शब्द-तदुपजीविप्रमाणातिरिक्तप्रमाणानुसारिलोकेऽपीति । आत्मा चैतन्यस्वभावः । निषेधद्वयं प्रकृतमथं गमयतीति न्यायात् नो सिद्धो नेत्यनेनाऽऽत्मा सिद्ध एवेत्यवधार्यते । लोकसिद्धत्वे हेतुमुपदर्शयति-जातिस्मरणसंश्रयादितिजातिस्मरणस्य-भवान्तरानुभूतार्थविषयकस्य मतिज्ञानविशेषस्य, संश्रयात्-लोकेनाङ्गीकरणात् , अनुभवस्मरणयोः समानविषयकयोः सामानाधिकरण्यप्रत्यासत्त्या कार्यकारणभावस्यान्येनानुभूतस्यान्येन स्मरणप्रसङ्गो मा प्रसाशीदित्येतदर्थमवश्यं स्वीकरणीयस्य पूर्वोत्तरभवानुयाय्यात्मद्रव्याभ्युपगममन्तरेणानुफ्पत्त्याऽऽत्मा लोकसिद्धो मन्तव्य एव, शरीरस्य त्ववयवोपचया-ऽपचयाभ्यां विनश्वरस्वभावस्यैकस्यैकजन्मन्यपि न पूर्वावस्थोत्तरावस्थाकालानुयायित्वं किमुत पूर्वोत्तरभवानुयायित्वमिति शरीरव्यतिरिक्त एवात्मा ततः सिद्ध्यति । ननु सर्वेऽप्यात्मानः यावन्न मुक्तिस्तावत् पूर्वभवाद् भवान्तरमागच्छन्त्येवेति पूर्वोत्तरभवानुयायित्वा. विशेषे किमिति कस्यचिदेवाऽऽत्मनो जातिस्मरणं न सर्वेषामिति तटस्थाशङ्काप्रतिविधानार्थमाह-सर्वेषामिति-जातिस्मरणशालिजीवव्यतिरिक्तजीवानामित्यर्थः, तेन जातिस्मरण-जातिस्मरणाभावयोर्जीवत्वाव्यापकत्वेन सर्वेषां जातिस्मरणमिति यथाऽविशेषितसर्वजीवाभिप्रायेण न सम्भवति तथाऽविशेषितसर्वजीवाभिप्रायेण सर्वेषां जातिस्मरणाभाव इति वचनमप्यन्वयानुपपत्त्या न सम्भवतीत्याशङ्काया नोन्मेषः । तदभावश्च जातिस्मरणाभावश्च । चित्रकर्मविपाकतः चित्रस्यबहुविधशक्तिकस्य, कर्मणः-जातिस्मरणरूपमतिज्ञानविशेषावरणकर्मणः, विपाकःफलप्रदानाभिमुख्यकालस्तस्मात् , भवान्तरादागमनाविशेषेऽपि यस्यैव जीवस्य मतिज्ञानविशेषावरणीयकर्मक्षयोपशमविशेषस्तस्यैव मतिज्ञानविशेषजातिस्मरणं न त्वन्यस्येति भावः ॥ ४०॥