________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
५१ कालस्याश्रये पुनः क्रियमाणे । आत्मा हन्त ! नाश्रीयते कथम् ? तस्यापि लोकसिद्धत्वादित्यभिप्रायः” इत्येवं सामान्यतो व्याख्यातमुत्तराद्धं श्रीमद्भिहरिभद्रसूरिभिः ।
शिष्यबुद्धिवैशद्यार्थमवतार्य व्याख्यातं श्रीमद्भिर्यशोविजयोपाध्यायैरित्थम्"अथ शब्द-तदुपजीविप्रमाणयोरेवानादरश्चार्वाकाणाम् , तन्मूलभूताऽऽप्तानाश्वासात् , अनुभवसिद्धस्त्वर्थो नापह्नोतुं शक्यः, अत एव तान्त्रिकलक्षणलक्षितमेवानुमानं प्रतिक्षिप्यते, तादृशप्रत्यक्षवत् , न तु बाल-गोपालसाधारणानलादिप्रतिपत्तिरूपम् , अन्यथा व्यवहारानिर्वाहात् , नहि धूमपरामर्शात् 'पर्वतो वह्निमान्' इति ज्ञानं जायमानं संशयरूपं स्मृतिरूपं वा संभवति, 'संदेसि, स्मरामि' इत्यननुसन्धानात् । किञ्च, परामर्शस्य निश्चयसामग्रीत्वान्न संशय. हेतुत्वम् , 'पर्वतो वह्निमान्' इति पूर्वमननुभवाच्च न तादृशी स्मृतिः । अथ 'यो धूमवान् सोऽग्निमान्' इति व्याप्तिज्ञानं धूमवत्त्वावच्छेदेन वह्निप्रकारकं तथैव स्मृतिमनुमितिस्थानीयां जनयति, पर्वतत्वांशे उद्बुद्धसंस्काराद् वा ततः 'पर्वतो वह्निमान्' इति स्मृतिः, यथा बुद्धिविषयतावच्छेदकवच्छिन्नशक्तादपि तत्पदात् निरुक्तशक्तिग्रहाहितसंस्कारेण तत्तद्धर्मावच्छिन्नशक्त्यशे उद्बुद्धन सहकृतात् पर्वतत्वादिविशिष्टोपस्थितिरिति चेत् ? न-विशिष्योद्बोधकहेतुत्वे गौरवात् , हेत्वाभासादिवैफल्यप्रसङ्गाच्च । तथाप्यनुमित्यभ्युपगमे प्रमाणान्तरप्रसङ्ग इति चेत् ? न-अनुमितित्वस्य मानसत्वव्याप्यत्वात् “वहि न साक्षास्करोमि" इति प्रतीतेगुरुत्वादाविव लौकिकविषयताभावादेवोपपत्तेः, युक्तं
चैतत् अनुमितित्वावच्छिन्न प्रति चाक्षुषादिसामग्रीप्रतिबन्धकत्वाकल्पने लाघवा. दिति, तथा च इदानीं घट इत्यादिप्रतीतो सम्बन्धघटकतया, परत्वादिलिङ्गेन वा कालसिद्धिरिति नव्यचार्वाकाशय इति चेत् ? अत्राह-लोकसिद्धस्य कालस्याश्रयेऽङ्गीकारे तु 'हन्त' इति खेदे, आत्मा कथं नाश्रीयते श्रद्धीयते, लोकसिद्धत्वाविशेषेऽपि सकलप्रयोजनहेतोरन्यसाधारणगुणस्यानङ्गीकारः, तत्तद्वस्तुपरिणामान्यथासिद्धस्य कालस्य चाङ्गीकार इति पुरः परिस्फुरतोर्मणि-पाषाणयोर्मध्ये मणिपरित्याग-पाषाणग्रहणवदतिशोचनीयं विलसितमिदं देवानांप्रियस्य इति 'हन्त' इत्यनेन सूच्यते इति" ॥ ३९ ॥