SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ५० शास्त्रवार्तासमुच्चयः। [प्रथमः चतुष्ट्वसङ्ख्या । न युज्येत न युक्ता स्यात् , तथा च स्वसिद्धान्तब्याकोप इति भावः ॥ ३८॥ ननु विशिष्टपरिणामस्य यावद्भूतकालसत्त्वं नाङ्गीक्रियते, नैतावता तस्य भूताभिन्नत्वव्याहतिः, यदा स परिणामो भवति तदा स भूताभिन्न एव, एवं च सर्वदा तस्यासत्त्वान्न सर्वदा चैतन्योपलम्भप्रसङ्गः, किन्तु यदा स विद्यते तदा चैतन्योपलम्भ इति पराकूतमाशङ्कय प्रतिक्षिपति स्वकालेऽभिन्न इत्येवं, कालाभावे न सङ्गतम् । लोकसिद्धाश्रये त्वात्मा, हन्त ! नाश्रीयते कथम्?॥ ३९ ॥ स्वकाल इति-तथाविधपरिणामभवनकाले इत्यर्थः । अभिन्नः भूतो निरुक्तपरिणामाभिन्नः, निरुक्तपरिणामो वा भूताभिन्नः, तथा च निरुक्तपरिणामोऽपि परिणामिभूतचतुष्टयान्यतमान्तर्गत एवेति तत्त्वसङ्ख्याव्याघातो न भवति, विशिष्टपरिणामाभावकाले च भूतस्य विशिष्टपरिणामभिन्नत्वेन विशिष्टपरिणामरूपव्यञ्जकाभावान्न चैतन्योपलम्भप्रमङ्गः, एकस्मिन्नपि भूते विभिन्न कालावच्छेदेन विशिष्टपरिणामभेदाऽभेदयोः सत्त्वं न विरोधापनेयम् , एकस्मिन् घटे पाककालतदन्यकालावच्छेदकभेदेन श्यामभेद-श्यामाभेदोभयस्यापि सत्त्वम् , श्यामभेदसत्त्वत एव "अयं न श्यामः" इति धीस्तत्र जायते, न चेयं धीविशेषणस्य श्यामरूपस्य पाकाद् विनाशेन तत्संसर्गाभावावगाहिनी, न तु श्यामभेदावगाहिनीति वाच्यम् , धार्मिवाचकपदोत्तरसप्तमीविभक्ति मभिव्याहृतेनैव नजा संसर्गाभावो बोध्यत इति नियमेन प्रकृतेऽनुयोगिवाचकेदम्पदोत्तरप्रथमाविभक्तेरेव सत्त्वेनानुयोगिवाचकपदोत्तरसप्तमीविभक्तिसमभिव्याहृतत्वाभावान्नजा संसर्गाभावबोधनासंभवात् , तथैकत्र विशेषणतयोपस्थितस्य नान्यत्र विशेषणतयाऽन्वय इति प्रकृते श्यामपदस्य श्यामरूपवदर्थकत्वे सम्बन्धिनि विशेषणतयोपस्थितस्य श्यामरूपस्य प्रतियोगितासम्बन्धेन नजाभावे विशेषणतयाऽन्वयासम्भवाच्च, यत्रानुयोगिवाचकपद-प्रतियोगिवाचकपदयोः समानविभक्तिकत्वं तत्र नजाऽन्योऽन्याभावो बोध्यत इति नियमतोऽन्योऽन्याभावबोधकस्यैवात्र न्याय्यत्वाच्च । इत्येवम् एतत्प्रकारं प्रकृतवचनम् । कालाभावे कालरूपतत्त्वान्तराभावे । न सङ्गतं न युक्तम् , अलीकमिति यावत् , भूतचतुष्टयमात्रतत्त्ववादिभिश्चार्वाकैनहि कालो नाम तत्त्वान्तरमिष्यते । “लोकसिद्धाश्रये तु लोकसिद्धस्य
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy