SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्थाद्वादवाटिकाटीकासङ्कलितः ४९ म्यर्थो निरूपितत्वम् । आवृतिः भावप्रधाननिर्देशादावारकत्वम् , विशिष्टपरिणामाभावोऽपीति पाठे तु भावप्रधाननिर्देशानाश्रयणेऽपि नान्वयानुपपत्तिः । न नैव । निषेधे हेतुमाह-भावताप्तेरिति-यत्र यत्रावारकत्वं तत्र भावत्वमित्येवमावारकत्वस्य भावत्वव्याप्यत्वेन विशिष्टपरिणामाभावस्यावारकत्वे भावत्वप्रसङ्गादित्यर्थः । नन्वन्धकारोऽपि दृष्टिप्रतिरोधकत्वाचाक्षुषप्रत्यक्षप्रतिबन्धकत्वेन चक्षुष आवारको भवति, स च नैयायिकैरुत्कृष्टतेजोऽभावरूप एवोपेयत इति तत्राऽऽवारकत्वमस्ति भावत्वं च नास्तीति व्यभिचारेणाऽऽवारकत्वं न भावत्वमिति चेत् ? न-अन्धकारे द्रव्यत्वस्य स्याद्वादवादिभिर्बहुषु ग्रन्थेषु व्यवस्थापितत्वात् , तुच्छत्वादभावस्य नावारकत्वं तथात्वे भावत्वापत्तिरिति मूलकृदभिमतं व्याख्यातम् । दूषणान्तरमाह-तथेति । नामव्यञ्जकत्वप्रसङ्गतः नमनं-परिणमनं नामेति, नामस्य-परिणामस्य प्राणापानवाक्कायाकारपरिणामस्य, व्यञ्जकत्वं-चैतन्यसाक्षात्कारजनकत्वम् , तस्य प्रसङ्गतः-आपत्तेः, कारणीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वम् , तच्च चैतन्यसाक्षात्कार प्रति विशिष्टपरिणामस्य तदा स्याद् यदि विशिष्टपरिणामाभावाऽभावश्चैतन्यसाक्षात्कारं प्रति तत्त्वेन कारणं स्यात् , तच्च न युक्तं विशिष्टपरिणामाभावाभावत्वेन निरुक्ताभावस्य कारणत्वकल्पनापेक्षया लाघवेन विशिष्टपरिणामत्वेन विशिष्टपरिणामस्यैव चैतन्यसाक्षात्कार प्रति कारणत्वस्य कल्पयितुमुचितत्वादित्येवं व्यञ्जकत्वप्रसङ्गादित्याशयः ॥ ३७ ॥ ननु विशिष्टपरिणामस्य चैतन्यसाक्षात्कारजनकत्वमिष्टमेव चार्वाकस्येत्यत आह- न चासौ भूतभिन्नो यत् , ततो व्यक्तिः सदा भवेत् । भेदे त्वधिकभावेन, तत्त्वसङ्ख्या न युज्यते ॥ ३८ ॥ न चासाविति-असौ विशिष्टपरिणामः । भूतभिन्नो भूतारिक्तः । यत् यस्माद्धेतोः । न च ततः तस्मात् कारणात् , सदा असङ्घातावस्थायामपि, भूतेन्द्रियसन्निकर्षे सति । व्यक्तिः चैतन्यसाक्षात्कारः, भवेत् स्यात् , यावद्भूतकालभाविनो भूताभिन्न विशिष्टपरिणामस्य चैतन्याभिव्यञ्जकस्य तदानीमपि सत्त्वात् । भेदे तु विशिष्टपरिणामस्य भूतेभ्यो भिन्नत्वेऽभ्युपगम्यमाने पुनः । अधिकभावेन अधिकस्य भूतचतुष्टयव्यतिरिक्तस्य विशिष्टपरिणामस्य सद्भावेन । तत्त्वसङ्ख्या "चत्वार्येव भूतानि" इतिवचनान्निर्धारिता तत्त्व ४ शास्त्र०स०
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy