________________
४८
शास्त्रवार्तासमुच्चयः।
[प्रथमः चार्वाकस्य किमनिष्टं स्याद् येन न भूतव्यतिरिक्तेन प्रतिबन्ध इत्यत आहतत्त्वसत्याविरोधत इति-पृथिव्यप्तेजोवाय्वात्मकभूतचतुष्टयमेव तत्त्वमित्येवं निर्धारिता था तत्त्वस्य चतुष्ट्वसङ्ख्या तस्या विरोधतः-अभावप्रसङ्गात् , तथा च स्वसिद्धान्तब्याकोपभयाद् भूतातिरिक्तं नास्त्येव किञ्चित् तत्त्वम् , यश्चेतनोपलब्धिप्रतिबन्धकं भवेत् , भूतानि च चेतनाया आश्रयत्वादभिव्यञ्जकान्येवेत्यतोऽनभिव्यक्तिर्नोपपद्यत इति युक्तियुक्तमिति भावः ॥ ३५ ॥ भूतानां चेतनाभिव्यञ्जकत्वादेव न केनचिद्रूपेण चेतनाऽऽवारकत्वमित्याह
न चासौ तत्स्वरूपेण, तेषामन्यतरेण वा। ,
व्यञ्जकत्वप्रतिज्ञानात् , नावृतिळञ्जकं यतः ॥ ३६ ॥ न चासाविति-असौ चेतनावृतिः । तत्स्वरूपेण भूतत्वादिना भूतस्वरूपेण । न च नैव । वा अथवा । तेषां भूतानाम् । अन्यतरेण पृथिवीत्वजलत्व-तेजस्त्व-वायुत्वान्यतमस्वरूपेण पृथिवीजलान्यतरत्व-पृथिवीतेजोऽन्यतरत्वपृथिवीवाय्वन्यतरत्व-जलतेजोऽन्यतरत्व-जलवाय्वन्यतरत्व तेजोवाय्वन्यतरत्वादिना वा, न च । कुतो नेत्यत आह-व्यञ्जकत्वप्रतिज्ञानादिति-भूतानां चैतन्यसाक्षात्कारजनकत्वस्वीकारादित्यर्थः । भूतानां चैतन्याभिव्यञ्जकत्वेऽपि चैतन्यावारकत्वमस्त्वित्यत आह-नावृतिरिति । यतः यस्मात् कारणात् । आवृतिः चैतन्यसाक्षात्कारकारणीभूताभावप्रतियोगित्वलक्षणचैतन्यसाक्षात्कारप्रतिबन्धकत्व-चैतन्यसाक्षात्कारजनकत्वलक्षणचैतन्यव्यञ्जकत्वयोर्विरोधादेकत्र समावेशासम्भवेनावृतिय॑ञ्जकं चैकं न भवितुमर्हतीति ॥ ३६॥
ननु कायाकारपरिणतेष्वेव भूतेषु चैतन्यमुपलभ्यत इति कायाकारपरिणतानां भूतानां चैतन्याभिव्यञ्जकत्वम् , कायाकारेणापरिणतेषु भूतेषु चैतन्यं नोपलभ्यत इति कायाकारपरिणामाभाव एव चैतन्योपलम्भप्रतिबन्धकत्वादावृतिरित्याशङ्काप्रतिक्षेपार्थमाह
विशिष्टपरिणामाभावेऽपि ह्यत्रावृतिर्न वै ।
भावताऽऽप्तेस्तथा नाम-व्यञ्जकत्वप्रसङ्गतः ॥ ३७॥ विशिष्टेति-विशिष्टपरिणामाभावेऽपि प्राणा-पान-वाक्-कायाकारपरिणामाभावेऽपि । हिः पादपूरणे । वै निश्चितम् । अत्र भूतगतचैतन्ये, सप्त