SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ स्याद्वादवाटिका टीकासङ्कलितः इत्यर्थः । द्वितीयपक्षमधिकृत्याह - नानात्व इति - शक्ति -चैतन्ययोः सर्वथा भेदे इत्यर्थः । सा चेतना । अन्यस्य भूतभिन्नस्य स्यादिति शेषः, भूतगता या शक्तिस्तद्भिन्ना सा न भूतानाम्, तेषां चेतनाभिन्नशक्तिरूपत्वात् । यतः यस्मादेवम्, तस्मात् परोक्तं न युक्तमिति "न तत्" इति पूर्वगतेन सह योजनातो लभ्यते । स्तबकः ] ४७ ननु पूर्वावस्थायां निर्विकल्प कैक ज्ञानगोचरीभूता चेतनाऽस्त्येव, तस्या व्यक्तरूपचेतनाजनकतालक्षणा शक्तिः स्वाभिन्नव्यक्तिरूपा समस्ति, व्यक्तरूपचेतनाजनकतालक्षणशक्तिरूपेण च सा न पूर्वं सविकल्पकज्ञानगोचर इति तदानीं चेतनायाः सविकल्पकज्ञानलक्षणोपलब्ध्यभावप्रसञ्जनं नानिष्टमिति चेत् ? नया सङ्घातदशायां व्यक्तचेतना सविकल्पक संवेद्याऽभिमता साऽप्युत्तरचेतनाजननी चेतनाप्रवाहाविच्छेदान्यथाऽनुपपत्त्याऽवश्यमेषितव्या, तस्या अप्युत्तरचेतनाजनकतालक्षणशक्तिरूपेणा योग्यत्वात् सविकल्पका संवेद्यत्वप्रसङ्गात्, उत्तरज्ञानजनिका व्यक्तचेतना चेतनात्वेनैव योग्या, न तूत्तरज्ञानजनकतालक्षणशक्तिरूपेणेति तद्रूपेण सविकल्पकज्ञानागोचरत्वप्रसञ्जनं तस्या नानिष्टमिति चेत् ? एवं सत्यसङ्घातलक्षणप्रत्येक भूतदशायामपि निरुक्तशक्तिरूपेणायोग्याऽपि चेतना चेतनात्वेन योग्यैवेति चेतनात्वेन सविकल्पक संवेद्या प्रसज्येत, अथवा चेतनात्वं तत्र न स्यादिति महासङ्कटे प्रविष्टश्वार्वाकवराक इति ॥ ३४ ॥ प्रत्येकदशायामनभिव्यक्ता चेतनैव शक्तिरिति तदानीमनभिव्यक्तत्वादेव सा नोपलभ्यत इति पराशयं दूषयति अनभिव्यक्तिरप्यस्या न्यायतो नोपपद्यते । आवृतिर्न यदन्येन तत्त्वसङ्ख्याविरोधः || ३५ ॥ चेतनायाः 1 अनभिव्यक्तिरपि न्यायतः अनभिव्यक्तिरपीति - अस्याः अभिव्यक्तिप्रतिबन्धक दोषसमवधान स्वरूप वृतिरेवानभिव्यक्तिरत्राभिमता स्यात्, तदन्यस्वरूपतया तस्या साऽपि निर्वक्तुमशक्यत्वात्, परमार्थविचारस्वरूपया नीत्या । नोपपद्यते अबाधितप्रतीतिविषयो न भवति । भवतु निरुक्तावृतिस्वरूपैवानभिव्यक्तिः, तस्याः कथमनुपपन्नत्वमित्यत आहआवृतिरिति । यत् यस्मात् कारणात् । अन्येन भूतव्यतिरिक्तेन । आवृत्तिः चेतनाभिव्यक्तिप्रतिबन्धो न । भूतव्यतिरिक्तेन चेतनाभिव्यक्तिप्रतिबन्धाभ्युपगमे
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy