________________
शास्त्रवार्तासमुच्चयः ।
[ प्रथमः
पादानमनुसन्धाय, अन्यथा मध्ये आदिपदोपादानं न कमप्यर्थं पुष्णीयादन्त्यादिपदादेव धर्मान्तरग्रहणसम्भवादिति बोध्यम् ॥ ३२ ॥
४६
प्रत्येकं भूतेषु सदा चैतन्योपलम्भापादनस्य परिहारं पराभिप्रेतं प्रतिक्षेप्तुमुपदर्शयति
शक्तिरूपेण सा तेषु सदाऽतो नोपलभ्यते ।
न च तेनापि रूपेण, सत्यसत्येव चेन्न तत् ॥ ३३ ॥
शक्तिरूपेणेति । सा चेतना । तेषु भूतेषु । सदा असंघातावस्थायामपि । शक्तिरूपेण अदृश्येन शक्तिरूपेण वर्तते । अतः अयोग्यशक्तिरूपेण विद्यमानत्वादेव कारणात् । नोपलभ्यते असङ्घातावस्थायामिन्द्रिय-भूतसंयोगेऽपि प्रत्यक्षविषयो न भवति, व्यक्तेरेव योग्यत्वं न शक्तेरिति प्रत्यक्षयोग्यस्य व्यक्तिरूपस्य तदानीमभावादेव चेतना सत्यपि नोपलभ्यत इत्यर्थः तेनापि रूपेण अतीन्द्रियशक्त्याख्यस्वरूपेणापि । सती स्वरूपवती चेतना । असती तु तत्कालीन भूतवृत्त्यभावप्रतियोगिनी । न च नैव, योग्यानुपलब्ध्यैवाभावः सिद्ध्यति, न त्वयोग्यानुपलब्ध्या, शक्तेरयोग्यत्वेन शक्तिस्वरूपावच्छिन्नस्य चैतन्यस्याप्ययोग्यतया तदनुपलब्धिर योग्यानुपलब्धिरेव, नास्यास्तदानीं चैतन्याभावः सिद्ध्यतीति । प्रतिक्षेता आह- इति चेदिति - एवं त्वं मन्यसे यदीत्यर्थः । न तत् तवाभिमतमनन्तरमुपदर्शितं न युक्तम् ॥ ३३ ॥
कुतो न युक्तमित्यत आह
शक्ति- चैतन्ययोरैक्यं, नानात्वं वाऽथ सर्वथा ।
ऐक्ये सा चेतनैवेति, नानात्वेऽन्यस्य सा यतः ॥ ३४ ॥ शक्ति- चैतन्ययोरिति - शक्तिलक्षणातीन्द्रिय धर्म- चैतन्यलक्षणधर्मिणोरित्यर्थः । ऐक्यम् अभेदः । सर्वथा भेदासहिष्णुतया । वा अथेति द्वयं पक्षान्तरावबोधकम् । नानात्वं भेदः । सर्वथा अभेदासहिष्णुतया । सर्वथैक्यसर्वथाभेदपक्षयोराद्यं सर्वथैक्यपक्षमधिकृत्याह - ऐक्य इति - शक्ति - चैतन्ययोः सर्वथैक्ये, भेदासहिष्ण्वभेद इत्यर्थः । सा शक्तिः । चेतनैव चेतनास्वरूपैव, न तु तदन्या, एकान्ताभेदाभ्युपगमात् तथा च चेतना यदि योग्या तदा तदात्मिक शक्तिरपि योग्येति असंघातावस्थायामपि चेतनायाः प्रत्यक्षप्रसङ्गः, यदि च न योग्य तदा संघातावस्थायामपि सैवेति तदाऽपि तदनुपलब्धिप्रसङ्ग
9