________________
स्तबकः ]
स्याद्वादवाटिकाटीकासङ्कलितः
धर्मत्व-भूतफलत्वयोरभावेऽपि चात्मनः किमायातमत आह-यस्येयमिति - इयं - चेतना, यत्स्वभावभूता यत्फलभूता च । स एवात्मा' चेतना - चैतन्यं कस्यचित् स्वभावो धर्मत्वात्, यो यो धर्मः स कस्यचित् स्वभावः, यथा जाड्यम्, 'चैतन्यं न भूतानां स्वभावः जाड्यानात्मकत्वात्, यन्नैवं तन्नैवं यथा मृत्त्वादिकम् ' 'चैतन्यं भूतव्यतिरिक्तस्य स्वभावः, भूतस्वभावत्वाभावे सति स्वभावत्वाद्' इति परिशेषानुमानेन यत्स्वभावत्वं चैतन्यं सिद्ध्यति स एवात्मा, एवं ' तत्तदवगाहितयोपलभ्यमानं चैतन्यं कस्यचिदुपादेयं कादाचित्कभावत्वात्, यत् कादाचित्कभावस्वरूपं तत् कस्यचिदुपादेयम्, यथा घटादि' 'तन्न जडोपादेयमजडस्वभावत्वात्, यद् यत्स्वभावं न भवति तत् तदुपादेयमपि न भवति, यथा चेतनस्वभावविकलो घटो न चेतनोपादेयः' 'तच्चेतनोपादेयम् अचेतनोपादेयत्वाभावे सत्युपादेयत्वाद्' इत्यनुमानेन चैतन्यस्य चेतनोपादेयत्वे सिद्धे तदुपादानं यत् स एवात्मेति सिद्धम् । इति च एवंस्वरूपं च । अपरे न परेअपरे इति व्युत्पत्त्या ग्रन्थकर्तृजातीया जैनाः, वदन्तीति दृश्यम् ॥ ३१ ॥
9
उपदर्शितानुमाने हेतौ साध्याभाववद्वृत्तित्वस्य साध्याभाववति हेतुसत्त्वस्य वा बाधकं तर्कमुपदर्शयति
यदीयं भूतधर्मः स्यात्, प्रत्येकं तेषु सर्वदा । उपलभ्येत सच्चादि- कठिनत्वादयो यथा ॥ ३२ ॥
४५
H
यदीयमिति - इयं - चेतना । यदि भूतधर्मः पृथिव्यादिधर्मः । स्यात् • भवेत् । यदीत्यनेन तदेत्याक्षिप्यते, तदा भूतधर्मत्वाभ्युपगमे । तेषु भूतेषु । प्रत्येकं शरीरात्मक सङ्घातावस्थानापन्नदशायामपि । सर्वदा यदा यदा तत्तद्भूतेन सहेन्द्रियसंयोगस्तत्तद्भूतप्रत्यक्षकारणं विद्यते तदानीम् । उपलभ्येत प्रत्यक्षविषयः स्यात् । सत्त्वादि कठिनत्वादयो यथा योग्याः सत्त्वादयो भूतसामान्यधर्मा यस्य कस्यचिद् भूतस्य प्रत्यक्षे तद्गततयोपलभ्यन्ते, एवं चैतन्य - मपि यदि भूतसामान्य धर्मः स्यात् तदा यस्य कस्यचिद् भूतस्य प्रत्यक्षे तद्गततयोपलभ्येत, यथा वा कठिनत्वादयो भूतविशेषधर्माः स्वाश्रयस्य भूतविशेषस्य प्रत्यक्षे तद्गततयोपलभ्यन्ते तथा चैतन्यमपि भूतविशेषधर्मः स्यात् तदा स्वाश्रयभूतविशेषस्य प्रत्यक्षे तद्गततयोपलभ्येत, भूतसामान्यधर्मतया भूतविशेषधर्मतया यत् पृथक्कृत्य चैतन्यस्य प्रत्यक्षापादनं तद् दृष्टान्तप्रदर्शकवचने मध्यगतादिपदस्यो