________________
४४ शास्त्रवार्तासमुच्चयः।
[प्रथमः बृहस्पतेः" इति, तथा च प्रत्यक्षाविषये अलौकिके धर्माधर्मादावात्मनि च शरीरव्यतिरिक्त मानाभावान्नास्त्यात्मेति लोकायतिकप्रवादः ॥ ३० ॥
शरीरव्यतिरिक्तात्मवादिनां परमपुरुषार्थमोक्षाभ्युपगन्तॄणामार्हतानां मतमुपदर्शयति___ अचेतनानि भूतानि, न तद्धर्मो न तत्फलम् ।
चेतनाऽस्ति च यस्येयं स एवात्मेति चापरे ॥ ३१ ॥ अचेतनानीति-भूतानि पृथिव्यादीनि । अचेतनानि चैतन्याभाववत्त्वेन , प्रमात्मकविज्ञानविषयत्वाञ्चैतन्यरहितानि, अचैतन्यवत्तया प्रमिते चैतन्यवत्त्वस्याभ्युपगन्तुमशक्यत्वात् , चेतना चैतन्यम् । तद्धर्मो न अविष्वग्भावसम्बन्धेन भूतवृत्तिर्न, तेनावच्छेदकतासम्बन्धेन शरीरात्मकभूते चैतन्यस्य वृत्तित्वेऽपि न क्षतिः, ये नैयायिकादय आत्मनो विभुत्वमिच्छन्ति तेषां मते आत्मनोऽन्यदेशे सत्त्वेऽपि न तत्र चैतन्यं किन्तु शरीर एवेत्यव्याप्यवृत्तिनश्चैतन्यस्यावच्छेदकशरीरमावश्यकम् , जैनमते तु शरीरपरिणामतुल्यकपरिणाम एवात्मेति सम्पूर्णात्मन्येव चैतन्यमिति व्याप्यवृत्तेस्तस्यावच्छेदकं किमिति परिकल्प्यमिति नारेकणीयम् , जैनमते धर्ममात्रस्यैवाव्याप्यवृत्तित्वेनाभ्युपगमात् , सम्पूर्णात्मनि विद्यमानमपि चैतन्यं सावच्छिन्नं भवत्येव, तत्रावच्छेदकतया प्रतीयमानस्य शरीरस्यावच्छेदकतासम्बन्धेन तदालम्बनत्वं सम्भवत्येव, चैतन्यस्य भेदसम्पृक्ताभेदलक्षणाविष्वग्भावसम्बन्धेन भूतवृत्तित्वप्रतिषेधार्थमेवान्यत्र 'तद्धर्मो न भूतस्वभावभूतो न' इति व्याख्यानम् , यत एव भूतधर्मश्चेतना न भवति तत एव तत्फलं न चेतना मूलक्षणोपादानकारणजन्या न, भूतोपादेया नेति यावत् , यथा जडस्वभावो घटो जडस्वभावाया एव मृद उपादेयस्तथाऽजडस्वभावा चेतना अजडस्वभावस्यैवोपादानस्योपादेया भवितुमर्हति, तत्स्वभावस्यैव तदुपादेयत्वमिति नियमात् । ननु सर्वमेव वस्तु जडस्वभावमेव, चेतना नाम जगति नास्त्येव, नहि शशशृङ्गादि कस्यचिद् धर्मो भवति, ततस्तस्याभूतधर्मत्वप्रतिषेधेन न काचिदिष्टसिद्धिरित्यत आह-अस्ति चेति-यथा गोचरीक्रियमाणत्वादेवान्ये पदार्थाः सिद्धयन्ति, अन्यथा शून्यमेव जगत् स्यात् , सा प्रतिप्राणि स्वसंवेदनात्मकानुभवगोचरीक्रियमाणाऽस्त्येवेत्यर्थः । ननु चेतनाया अस्तित्वेऽपि भूत