________________
स्तबकः]
स्याद्वादवाटिकाटीका सङ्कलितः
४३
कल्पकप्रत्यक्षस्यानुमानवदप्रमाणतयैव स्वीकृतत्वेन तत्र प्रामाण्यसाधनस्य चार्वाकाननुष्ठेयत्वात्, निर्विकल्पकं यथा स्वसंवेदन सिद्धं तथा तद्गतानि सन्मात्रावलम्बनत्व-स्वप्रकाशविषयत्व-प्रामाण्यावगाहित्वान्यपि तत्स्वरूपत्वादेव स्वसंवेदनसिद्धान्येवेति न तत्सिद्ध्यर्थमनुमानस्यापेक्षणम्, तत्तद्रूपेण संभावनाविषयत्वादेव च निर्विकल्पकं सन्मात्रविषयं स्वप्रकाशविषयं प्रामाण्यविषयमित्यादिधियोऽयं घट इति धीवत् सम्भवन्ति, विर्विकल्पकं सन्मात्रविषयमिति संभाव्यते, निर्विकल्पकं स्वप्रकाशविषयमिति संभाव्यते, निर्विकल्पकं प्रामाण्यावगाहीति संभाव्यते, इत्येव भवति, न त्वनुमीयत इति नानुमानापेक्षाऽत्रापीति । अत एव शब्दोऽपि न प्रमाणम्, परस्परविरुद्धार्थाभिधायकानामागमानां मध्येऽयमागमः प्रमाणमयं च न प्रमाणमित्यस्य विनिगन्तुमशक्यत्वेन विनिगमनाविरहात् सर्वस्य प्रामाण्ये नित्यत्वानित्यत्वादिकं सर्वं परस्परविरुद्वमेकत्र सिद्ध्येत्, तथा च विरोधवार्तैवोच्छिद्येत, ततः सर्वेषामागमानामप्रामाण्यमेवास्थेयम्, तथा च न प्रमाणजन्योऽपि शब्दः, किन्तु वासनामात्रप्रभवो वासनामात्रजनकश्च वासना च पूर्वपूर्वविकल्पप्रभवस्तत्समानोऽसदर्थविषयक उत्तरोत्तरविकल्प एव न तु पूर्वानुभवजनित उत्तरस्मृतिजनको भावनाख्यः संस्कारो नैयायिकाद्यभिमतश्वार्वाकसंमतः, तस्यातीन्द्रियत्वेन प्रत्यक्षप्रमाणागोचरतया प्रत्यक्षमात्रप्रमाणवादिना चार्वाकेणाभ्युपगन्तुमशक्यत्वात् एवं च
"
"
m
wwww
"
"विकल्प योनयः शब्दा विकल्पाः शब्दयोनयः ॥ कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यपि ॥ १ ॥" [ ] इति - बौद्धवचनमेतन्मतस्याप्युद्वलकम्, यदि शब्दः सदर्थप्रतिपादक एवेत्यभ्युपगम्येत तदाऽसदर्थप्रतिपादकशशशृङ्गादिशब्दप्रयोगो दुर्घट एव स्यात् एवं स्वोत्प्रेक्षापरिकल्पितार्थगोचर निबन्धगुम्फनमपि न स्यात्, वासनामात्रप्रभवत्वे च स्वकर्तृकविगतोत्प्रेक्षालक्षणवासना तस्तत्समुदायः स्वाध्ययनकर्तॄणां स्वप्रभववासनासमुल्लासश्च । नन्वेवं शब्दस्याप्रमाणत्वे तवागमोऽपि प्रमितिफलाजनकत्वान्निरर्थकः स्यादिति चेत् ? न ममागमस्य परं प्रति दूषणपर्यनुयोगपरत्वात्, परस्य दूषणपर्यनुयोगनिर्वर्तकोत्तरादानमात्रेण निग्रहे सति परनिग्रहप्रयोजकत्वेन ममागमस्य सार्थक्यात्, अत एव चार्वाकमतप्रवर्तकस्य बृहस्पतेः परं प्रति पर्यनुयोगपराण्येव सूत्राणि, तदुक्तम् - "सर्वत्र पर्यनुयोगपराणि सूत्राणि
wwwwww