________________
शास्त्रवार्तासमुच्चयः ।
[प्रथमः वह्निमान् नवा' इति संशयोऽस्ति स न वह्निरूपविध्यंशे उत्कटकोटिक इति तस्य संभावनात्वाभावेन ततः प्रवृत्त्यभावेऽपि न व्यभिचारः ननु; धूमदर्शनोत्तरकालमपि पर्वतो वह्निमान् नवेत्येवमेवोपजायमानस्य संशयस्य धूमदर्शनप्राक्कालीनजायमानतथाविधसंशयतो विशेषाभावात् कथमुत्कटकोटिकत्वमिति चेत् ? तर्हि वह्निरूपविध्यंशे उत्कटकोटिकवह्निसंशयं प्रति धूमदर्शनं कारणमित्येवं विशिष्य कार्यकारणभाव आद्रियताम् , तथा च धूमदर्शनात् प्राग् धूमदर्शनरूपकारणाभावाजायमानवह्निसंशयस्य वह्नयंशेऽनुत्कटकोटिकत्वेऽपि धूमदर्शनोत्तरकाले जायमानस्य तस्योत्कटकोटिकत्वसंभवेन संभावनात्मकात् तस्माद वह्वयर्थिनस्तत्र प्रवृत्तिरुपपन्नैवेति । ननु अनुमानं न प्रमाणमिति यद् भवतो वाक्यं - तत् प्रमाणमप्रमाणं वा?, यदि प्रमाणं तदा शब्दस्य प्रामाण्यं भवताऽप्युररीकृतमिति प्रत्यक्षमेवैकं प्रमाणमिति स्वमतव्याकोपः; अथ न प्रमाण, तदा तस्याप्रामाण्यमप्रमाजनकत्वादेव स्यादिति तदर्थज्ञानमप्रमात्मकं वाच्यम् , तच्च तदा स्याद् यदि प्रमाणत्वाभावाभाववत्यनुमाने प्रमाणत्वाभावप्रकारकत्वं स्यादित्यनुमानप्रामाण्यापात इति चेत् ? न-अनुमितिलक्षणप्रमात्मकफलाभावे. तत्करणरूपस्यानुमानस्याप्यभावेन शशशृङ्गकल्पस्य तस्य न किञ्चित् कार्य प्रति कारणत्वमित्येतद्वाक्यस्य प्रमाकरणत्वाभावरूपाप्रामाण्यविषयकज्ञानलक्षणविकल्पजनकत्वेन प्रामाण्यासंभवात् , विकल्पमात्रस्यासदर्थविषयकत्वेन प्रमात्वानभ्युपगमात्, एतावतोक्तवाक्यस्याप्रामाण्येऽपि नानुमानस्य प्रामाण्यमापतत्यसख्यातिवादिनचार्वाकस्य । ननु ज्ञाने प्रामाण्यस्य स्वतो ग्राह्यत्वे इदं ज्ञानं प्रमा न वेति संशयो न स्यात् , संशये धर्मिज्ञानस्य कारणत्वेन धर्मिणो ज्ञानस्य ग्रहे तब्राहकेण तद्गतप्रामाण्यनिश्चयेन प्रामाण्यसंशयप्रतिबन्धात् , धर्मिणो ज्ञानस्याग्रहे तु धर्मिज्ञानाभावादेव संशयासंभवादिति संशयानुरोधेन प्रामाण्यस्य परतो ग्राह्यत्वमेवाभ्युपेयम् , तथा च 'प्रत्यक्षं प्रमाणं संवादिप्रवृत्तिजनकत्वात् , यन्नैवं तन्नैवं यथा भ्रमः' इत्यनुमानेनैव प्रत्यक्षस्य प्रामाण्यं गृह्यत इति प्रत्यक्षस्य प्रामाण्यमभ्युपगच्छता चार्वाकेणानुमानस्यापि प्रामाण्यमभ्युपेयमेव, अन्यथा प्रत्यक्षस्यापि प्रामाण्यं न सिध्येदिति चेत् ? न-निर्विकल्पकप्रत्यक्षस्यैव प्रामाण्यस्याभ्युपगमेन तन्त्र स्खलक्षणविषयकत्वरूपव्यावर्तकधर्मदर्शनस्य संशयप्रतिबन्धकस्य सद्भावेन स्वसंवेदनेन तब्यक्त्यात्मकसद्विषयकत्वरूपप्रामाण्यनिश्चयेन च संशयस्यैवाभावात् , सवि.