________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः इति तन्न सद्विषयकत्वलक्षणप्रामाण्यसहचरितमिति ततोऽपि अध्यक्षमूलकविकल्पविषयविषयकत्वरूपसंवादान प्रामाण्याभिमानसंभवः, परन्तु अध्यक्षमूलकमध्यक्षान्तरं विकल्पश्चेति तत्राध्यक्षमूलकत्वेनाध्यक्षान्तरमुपादाय तद्विषयपरमार्थसत्स्वलक्षणविषयकत्वं प्रमाणभूते निर्विकल्पकप्रत्यक्षे वर्तते, अध्यक्षमूलकत्वेन विकल्पकमुपादाय तद्विषयीभूतासद्विषयकत्वमुक्तसंभावनायामपि वर्तत इति सद्विषयकत्वरूपप्रामाण्यसहचरितादध्यक्षमूलकविषयविषयकत्वरूपसंवादादुक्तसंभावनायां प्रामाण्याभिमानसंभव इत्यत्र बोध्यम् । नन्वेवं निरुक्तसंभावनात्मकं ज्ञानं प्रमाणम्, अध्यक्षमूलकविषयविषयकत्वात् , यदध्यक्षमूलकविषयविषयकं तत् प्रमाणम् , यथा निर्विकल्पकप्रत्यक्षमित्येवं प्रामाण्याभिमानोऽत्रानुमानमेव स्यात् , तथा च तद्दष्टान्तेनान्यदप्यनुमानं भवेत् , यथा पर्वतो वह्निमान् धूमात् , यो यो धूमवान् स वह्निमान् यथा महानसमित्येवं साधर्म्यदर्शनमूलकत्वस्यान्यत्रापि भावादिति दृष्टसाधर्म्यणानुमानप्रामाण्यसाधनमनुमानप्रामाण्यानभ्युपगमे चार्वाकवराकस्य दुःसाधनमेवेति चेत् ? सत्यम्-यद्युक्तदिशाऽभिमतः प्रामाण्याभिमानोऽनुमानरूपो भवेत्, न चैवम् , किन्तु संभावनायामपि प्रामाण्याभिमानः संभावनारूप एवेति, साधर्म्यदर्शनस्य चागृहीतासंसर्गकार्थस्मृतिरूपत्वे संभावनाया उद्बोधकविधया, उत्कटकोटिकसंशयरूपत्वे तु साधारणधर्मदर्शनविधयोपयोगात् , संभावनाया एव च बहुशो व्यवहारहेतुत्वात् , प्रमाणभूतानुमानाभ्युपगमस्य न किञ्चित् प्रयोजनम्, अत एव न परकीयसंदेहादिप्रतिसन्धाननिमित्तशब्दप्रयोगाद्यनुपपत्तिः, येनानुमानं प्रमाणमनभ्युपगच्छन् चार्वाकः परकीयसंशयं विपर्ययमज्ञानं वा स्वप्रत्यक्षप्रमाणागोचरं केनावधारयेत् ? तदीयचेष्टादिलिङ्गेनैव संशयादिकार्येण तदनुमानरूपं संशयाद्यवधारणं स्यात् , प्रत्यक्षस्य तत्राप्रसरादनुमानस्य चानभ्युपगमात् , तदनवधारणे च परार्थ वाक्योच्चारणमपि तस्य न स्यात् , परकीयं संशयादिकं ज्ञात्वैव तन्निवृत्त्यर्थं वाक्यमुच्चारयन्ति पण्डिताः, अन्यथोन्मत्तवाक्यवदनादरणीयत्वमेव यत्किञ्चिप्रलापस्य स्यादित्याशङ्कोन्मेषो भवेत् ; चेष्टादिना परकीयसंशयादिसंभावनयैव तन्निवृत्त्यर्थं परार्थवाक्योच्चारणप्रवृत्तिसंभवात् । ननु अर्थसंशयरूपसंभावनाया न प्रवृत्तिं प्रति कारणत्वम् , धूमदर्शनात् प्रागपि वह्निरूपार्थसंशयरूपसंभावनायाः सत्त्वेऽपि वह्नयर्थिनस्तत्र प्रवृत्तरभावेन व्यतिरेकव्यभिचारादिति चेत् ? तत एवोत्कटकोटिकत्वं संशयविशेषणतयोपादीयते, धूमदर्शनात् प्राग् यः 'पर्वतोऽयं