________________
शास्त्रवार्तासमुच्चयः ।
[ प्रथमः
]
स्यैवाहं प्रत्ययविषयत्वात् स एवात्मा, “चैतन्यविशिष्टः कायः पुरुषः " [ इति वचनात्, अदृष्टं - धर्मा-धर्मलक्षणम्, तथा च शरीरव्यतिरिक्तात्मा - ऽदृष्टयोः सद्भावम् । भूतवादिनः भूतचतुष्टयमात्रतत्त्ववादिनो लोकायतिकाश्चार्वाका इति यावत् । न च मन्यन्ते नैव स्वीकुर्वन्ति ।
४०
wwwwww
प्रत्यक्षविषयवस्तुन एव पारमार्थिकत्वं ते स्वीकुर्वन्ति नादृष्टस्य, तत्र प्रमाणाभावात्, प्रत्यक्षाविषयत्वादेवाऽदृष्टशब्दवाच्ये तस्मिन् न प्रत्यक्षप्रामाण्यं क्रमते । सर्वोपसंहारेण सहचारलक्षणाया व्याप्तेर्ग्रहीतुमशक्यत्वेन व्यभिचारित्वशङ्काया व्याप्तिग्रहप्रतिबन्धिकायाः सर्वत्र सुलभत्वेनापाततो व्याप्तिग्रहस्य व्यभिचारियपि सम्भवेन च व्यभिचारिसाधारण्येनानुमानस्याप्रमाणतया नानुमानमपि तन्त्र प्रमाणम् । नन्वनुमानस्याप्रमाणत्वे धूमादिना वह्नयादिकमनुमाय वह्याद्यानयनादौ या प्रवृत्तिः सा न स्यादिति चेत् ? न - वह्नयादिसम्भावनयैव तत्र प्रवृत्त्युपपत्तेः, संवादेन च तत्र प्रामाण्याभिमानस्याप्रामाण्यग्रहप्रतिबन्धकस्य सत्त्वेन प्रवृत्तावुपयुक्तस्य तज्जनकज्ञानेऽप्रामाण्यज्ञानानास्कन्दित्वस्यापि सम्भवात् । ननु अगृहीता संसर्गकवह्नयादिस्मृतिरूपायां संभावनायामसद्विषयिण्यां परमार्थसत्स्वलक्षण[] स्वलक्षणशब्दो विशेषपरिभाषकः ]विषयकाध्यक्षविषय विषयकत्वलक्षणः संवादः प्रामाण्यसहचरितो नास्त्येव, अध्यक्षमूलकविकल्पविषयविषयकत्वरूपसंवादस्य निरुक्तसंभावनायां सम्भवेऽपि तस्य न सद्विषयकत्वरूपप्रामाण्यसहचरितत्वमिति न ततः संभावनायां प्रामाण्याभिमान इति चेत् ? सत्यम्-तथाप्यध्यक्षमूलकाध्यक्षान्तरसाधारणस्याध्यक्षमूलकविषयविषयत्वरूप
संवादस्य सद्विषयकत्वरूपप्रामाण्यसहचरितत्वेन ततस्तत्र तदभिमानस्य संभवात् । एतमन्ते परमार्थसत्स्वलक्षणमदृश्य परमाणुस्वरूपं न संभवति, प्रत्यक्षाविषयत्वेन तस्यासत्त्वात् परमाणोरभावे तत्पुञ्जस्याप्यभावेन तदात्मकस्यापि स्वलक्षणत्वं वक्तुमर्हम्, किन्तु यदेव दृश्यते महाभूतं पृथिव्यादि तदेव स्वलक्षणमिह ग्राह्यम्, परमार्थसत्तदात्मक स्वसक्षण विषयकमध्यक्षं निर्विकल्पक प्रत्यक्षम्, तद्विषयः परमार्थसत्स्वलक्षणम्, तद्विषयत्वरूपसंवादो निर्विकल्पकप्रत्यक्ष एव वर्तते, न त्वसद्विषयिण्यामगृहीता संसर्गकवह्न्यादिस्मृतिरूप संभावनायामिति न ततस्तत्र प्रामाण्याभिमानसंभवः, अध्यक्षं निर्विकल्पकम्, तन्मूलको विकल्पः सामान्याद्यसदर्थविषयकः, तद्विषयः सामान्यादि, तद्विषयकत्वमुक्तसंभावनायां यद्यप्यस्ति तथापि तन्न परमार्थसत्स्वलक्षणग्राहिणि निर्विकल्पकप्रत्यक्षप्रमाणे