________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
यद्यग्रे मुक्त्युत्पत्तिप्रकार दर्शयिष्यन्ति भवन्तस्तहीदानी किं करिष्यन्ति भवन्त इत्यपेक्षायां प्रसङ्गसङ्गत्या शास्त्रपरीक्षैव क्रियत इत्याह
इदानीं तु समासेन, शास्त्रसम्यक्त्वमुच्यते ।
कुवादियुक्त्यपव्याख्यानिरासेनाविरोधतः ॥ २९ ॥ इदानीं त्विति-संज्ञानयोगलक्षणे युक्तास्थासमर्थनकालाव्यवहितोत्तरकाले पुनरित्यर्थः । समासेन संक्षेपेण, तेन विस्तरतः शास्त्रसम्यक्त्वकथनस्य परिमितवर्षायुषामस्मादृशामशक्यत्वेऽपि शिष्यहितानावहत्वेऽपि न क्षतिः । शास्त्रसम्यक्त्वं शास्त्रस्य-आगमस्य, सम्यक्त्वम्-अविपरीतार्थाभिधायकत्वं प्रामाण्याऽप्रामाण्यविभागो वा । उच्यते कथ्यते । कथमित्याकाङ्क्षायामाह-कुवादीतिकुवादिनाम्-अयथार्थप्ररूपकाणां चार्वाक-मीमांसकादीनां युक्तयश्चापव्याख्याश्च कुवादियुक्त्यपव्याख्यास्तासां निरासेन-बलवत्प्रमाणबाध्यत्व-भ्रान्तिमूलकत्वोपदर्शनेन । अविरोधतः सर्वशास्त्राविरोधेन, तेन कुवाद्यापादितविरोधाशङ्कानिरासोऽभिव्यज्यते ॥ २९ ॥
कुवादिमतोपदर्शने कृत एव तद्युक्त्यपव्याख्या उपदर्शिता भवन्ति, उपदर्शनतो ज्ञातेष्वेव तेषु बलवत्प्रमाणबाध्यत्वादिकमुपदर्शयितुं शक्यमिति तत्रादौ चार्वाकयुक्तीनां निराचिकीर्षया तन्मतमुपन्यस्यति
पृथिव्यादिमहाभूतमात्रकार्यमिदं जगत् ।
न चात्मा-ऽदृष्टसद्भावं, मन्यन्ते भूतवादिनः ॥ ३० ॥ .. पृथिव्यादीति-इदं प्रत्यक्षप्रमाणविषयीभूतम् । जगत् चराचरं यत्किञ्चिद्दृश्यते तत् सर्वम् । पृथिव्यादिमहाभूतमात्रकार्य पृथिव्यादीत्यादिपदा जलतेजो-वायूनां ग्रहणम् , तथा च पृथिवी-जल-तेजो-वायुलक्षणानि यानि महाभूतानि चत्वारि, महत्त्वविशेषणोपादानात् प्रत्यक्षप्रमाणाविषयस्य परमाणुद्वयणुकलक्षणसूक्ष्मभूतस्य व्यवच्छेदः, तस्यासत्त्वेन तत्कार्यत्वस्य जगत्यसम्भवात् , तन्मात्रकार्य तदतिरिक्तस्यासत्त्वेन तत्कार्यत्वस्य सम्भावयितुमशक्यत्वादिति मात्रपदेनाकाशादिव्यवच्छेदः। नन्वात्मनो जगदन्तर्गतस्य नित्यत्वान्महाभूतकार्यत्वं न सम्भवतीति कथं महाभूतमात्रकार्य जगदित्यत आह-न चात्मेति-शरीरातिरिक्तोऽहंप्रत्ययविषयीभूत आत्मा नैवास्ति, चैतन्यस्य शरीरधर्मत्वेन शरीर