SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [प्रथमः "अनित्यः प्रियसंयोगः” इत्यादिना दर्शितम् । सर्वस्याप्यस्य दुःखमयत्वं प्रतिपादयतीदं पतञ्जलिसूत्रम्-"परिणाम-ताप-संस्कार-दुःखैर्गुणविरोधाच्च दुःखमेव सर्व विवेकिनः" [पात० २.१५.] एतद्विवेचनं श्रीमद्यशोविजयोपाध्यायपरिशीलितमित्थम् "राग एव हि पूर्वमुद्भूतः सन् विषयप्राप्या सुखं परिणमते, तस्य च प्रतिक्षणं प्रवर्धमानत्वेन स्वविषयाप्राप्तिनिबन्धनदुःखस्य दुष्परिहरत्वात् परिणामदुःखता; तथा सुखमनुभवन् दुःखसाधनानि द्वेष्टि, तदपरिहारक्षमश्च मुह्यतीति तापदुःखता; तथा वर्तमानसुखानुभवः स्वविनाशकाले संस्कारमाधत्ते, स च सुखस्मरणम् , तच्च रागम् , स च मनः-काय-वचनप्रवृत्तिम् , सा च पुण्याऽपुण्यकर्माशयौ, तौ च जन्मादीनीति संस्कारदुःखता । एवं कालत्रयेऽपि सुखस्य दुःखानुषङ्गाद् दुःखरूपता सिद्धा, उद्भूतसत्त्वकार्यत्वेऽपि सुखस्यानुद्भूतरजस्तमःकार्यत्वात् स्वभावतोऽपि दुःखविषादरूपता, समवृत्तिकानामेव हि गुणानां युगपद्विरोधो न तु विषमवृत्तिकानाम् , इत्येकदोद्भूता-ऽनुद्भूततया न सुख-दुःखमोहविरोधः" इति ॥ २७ ॥ मुक्तिकारणत्वात् संज्ञानयोगलक्षणे धर्मे युक्ताऽऽस्थेति समर्थिते सति ततो मुक्तिर्यया रीत्योत्पद्यते तत्प्रकारस्यावश्यवक्तव्यत्वेऽपि प्रतिबन्धकशिष्यजिज्ञासायाः सत्त्वान्नेदानी मुक्त्युत्पत्तिप्रकारो वक्ष्यते, किन्तु शिष्यजिज्ञासानिवृत्तौ सत्यां प्रतिबन्धकनिवृत्ताववश्यवक्तव्यत्वलक्षणावसरसङ्गत्योत्तरकालं वक्ष्यते इतीदानी तत्प्रतीक्षामाह तस्माच्च जायते मुक्तिर्यथा मृत्यादिवर्जिता। तथोपरिष्टाद् वक्ष्यामः, सम्यक् शास्त्रानुसारतः ॥ २८ ॥ तस्माच्चेति-निरुक्तधर्मात् पुनरित्यर्थः । जायते उत्पद्यते । मुक्तिः मोक्षः। यथा येन प्रकारेण । कीदृशी मुक्तिरित्यपेक्षायामाह-मृत्यादिवर्जितेतिमृत्यादीत्यादिपदाद् रोग-शोकपरिग्रहः, मृतिः-आयुःक्षयः, तथा च आयुःक्षय-रोग-शोकरहिता निवृत्तिर्येन प्रकारेण भवतीत्यर्थः । तथा तेन प्रकारेण । उपरिष्टात् अग्रे । वक्ष्यामः “तथैव ज्ञानयोगस्य" इत्यादिना कथयिष्यामः। सम्यग् अविरोधेन । शास्त्रानुसारतः शास्त्रतात्पर्य परिगृह्य ॥ २८ ॥
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy