________________
स्तबकः ]
स्याद्वादवाटिकाटीकासङ्कलितः
मुक्तिफलकधर्मस्वरूपसिद्धिमुपसंहरतितस्मादवश्यमेष्टव्यः कश्चिद्धेतुस्तयोः क्षये । स एव धर्मो विज्ञेयः, शुद्धो मुक्तिफलप्रदः ॥ २५ ॥
३७
तस्मादिति - यस्मात् कादाचित्कत्वस्वभावः सहेतुकत्वनियतस्तस्मात् कारणादित्यर्थः । अवश्यं कश्चित् तयोः संसारफलकयोर्धर्मा-धर्मयोः । क्षये विनाशे | हेतुः कारणम् । एष्टव्यः स्वीकर्तव्यः । य एव धर्मा-धर्मयोः क्षये कारणं स एव शुद्धः सर्वाशंसारूपमलरहितः । मुक्तिफलप्रदः मुक्तिलक्षणफलजनकः । धर्मः धर्मपदाभिधेयः । विज्ञेयः श्रद्धास्पदत्वेन ज्ञातव्यः ॥२५॥ चोद्यशेषं प्रतिक्षिपति
धर्माधर्मक्षयान्मुक्तिर्यच्चोक्तं पुण्यलक्षणम् ।
हेयं धर्मं तदाश्रित्य न तु संज्ञानयोगकम् ॥ २६ ॥ धर्मा-धर्मक्षयादिति । यच्च यत् पुनः । 'धर्मा धर्मक्षयान्मुक्तिः' इति उक्तम् अभिहितम् । तत् उक्तवचनम् । पुण्यलक्षणं हेयम् आशंसादोष कलङ्कितत्वेनानुपादेयत्वात् त्याज्यम् । धर्मम् आश्रित्य प्रकृतधर्मपदशक्तिग्रहविषयीकृत्य । संज्ञानयोगकमित्यत्र कप्रत्ययस्य संज्ञायां विधानात् संज्ञानयोगसंज्ञं धर्ममाश्रित्य न तु नैवोक्तवचनम् । तथा च धर्मा-धर्मक्षयादित्यत्र धर्मपदेन संज्ञानयोगलक्षणधर्मस्योपग्रहे तत्क्षयजन्यमुक्तौ तज्जन्यत्वं न संभवतीत्येवं बाधस्य नावकाश इति ॥ २६ ॥
संज्ञानयोगलक्षणधर्म एवास्था विधेया तदन्यधर्ममात्रस्य दुःखकारणत्वेनानुपादेयत्वादित्युपसंहरति
अतस्तत्रैव युक्तास्था, यदि सम्यङ् निरूप्यते ।
संसारे सर्वमेवान्यद्, दर्शितं दुःखकारणम् ॥ २७ ॥
अत इति पूर्वपक्षोक्तयुक्तिनिकरनिराकरणादित्यर्थः । तत्रैव उक्तलक्षणधर्म एव । युक्तास्था भास्था समीचीना । यदि सम्यग् आगमोपपत्त्यनुसारेणाविपरीतम् । निरूप्यते विचार्यते । संज्ञानयोगातिरिक्तं सर्वमेव दुःखकारणमिति यदेव प्रतिपक्षप्रवृत्तिनिरासार्थमुपदर्शितं तदेव स्मारयति-संसार इति संसारे सर्वमेव, अम्यद् निरुक्तधर्मातिरिक्तम् । दुःखकारणं केवलदुःखमयम् ।