SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ u शास्त्रवार्तासमुच्चयः। [प्रथमः सदातनत्वमाकाशादीनां कादाचित्कत्वं स्वभावो न त्वन्यस्य धर्मोऽन्यस्येत्यर्थः, यथाऽऽहु: "नित्यसत्त्वा भवन्त्येके नित्यासत्त्वाश्च केचन । विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः ॥ १॥ वह्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः । केनेदं रचितं तस्मात् स्वभावात् तद्वयवस्थितिः ॥२॥"[ ] इति । न च 'नियतदेशवन्नियतकालस्वभावः' इत्यनेनास्य पौनरुत्यम् , पूर्व हि सापेक्षत्वादित्यत्र यथा परमाणु-तत्परिमाणादीनां निरपेक्षत्वेऽपि नियतदेशवृत्तित्वं तथा घटादीनां नियतकालत्वं स्थादित्यप्रयोजकत्वमुक्तम् , सम्प्रति तु कादाचिकत्वस्वभावो निहतुकः स्वभावनियतत्वात् , नित्यस्वभाववदिति सत्प्रतिपक्षत्वमुक्तमित्यर्थभेदात् । पूर्व यन्नियतं तत्र कारणनियम्यं यथा जातेः काचित्कत्वमित्युक्तम् , सम्प्रति तु स्वभावो न नियम्य इत्युच्यत इत्यपौनरुत्यमित्यन्ये । न-सर्वस्येति–एकनियतो धर्मः स्वभाव इत्युच्यते, तद्यदि सर्वस्य सम्भवेत् तदा स्वभावत्वमसाधारणत्वं नोपपद्यते सत्तादेरिवेति स्वभावत्वव्याघात इत्यर्थः । नन्वेवमिति-यद्याकाशस्याकाशत्वं न सर्वस्य तत्त्वव्याघातादिति विपरीतमनाशङ्कनीयम्, तदा कादाचित्कत्वस्वभावस्याहेतुकत्वे सदातनत्वमप्यनाशङ्कनीयं कादाचित्कत्वस्वभावभङ्गप्रसङ्गादित्यर्थः । कादाचित्कत्वस्वभावसिद्धौ तद्विपरीतकल्पनायां व्याघातः स्यात् , तत्सिद्धिश्च निरवधित्वस्वभावत्वे वा, सावधित्वस्वभावत्वे वा, प्रकारान्तराभावात् , द्वितीयेऽप्यनियतावधित्वे तद्विपर्यये वा, तत्र प्रथम-द्वितीययोराह-निरवधित्व इति ये ये निरवधयोऽनियतावधयश्च भावा दृष्टास्तेषां नियमतः कादाचित्कत्वस्वभावविरहात् , निरवधिस्वभावस्य अनियतावधिस्वभावस्य वा कादाचित्कत्वस्वभावविरोधः, न हि विरुद्धयोरुष्णशीतयोरेकस्वभावत्वम् , तथा च कादाचित्कत्वव्याघातस्तत्स्वभावत्वव्याघात इत्यर्थः । तृतीयमाशय सम्प्रतिपत्तिमुत्तरमाह-नियतावधित्व इति । वस्तुतोऽस्मिन् सतीदं भवति असति न भवतीति प्रत्यक्षेण नियतपूर्वभावस्य ग्रहात् प्रत्यक्षमेव कारणत्वे मानम् , तस्य चानन्यथासिद्धत्वग्राहकस्तर्कः स्यादेवेत्यादिना दार्शत इति रहस्यम्" इति ॥ २४ ॥
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy