SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ स्तबकः ] स्याद्वादवाटिकाटीका सङ्कलितः ३५ धूमो वह्निमिव गर्दभमप्यवधीकुर्यात्, तथा च वह्नेर्धूम इतिवद् गर्दभादू इत्यपि प्रमीयेतेति, तदुक्तं कुसुमाञ्जलावुदयनाचार्येण— " " सन्तु ये केचिदवधयो न तु तेऽपेक्ष्यन्त इति स्वभावार्थ इति चेत् ? नापेक्ष्यन्त इति कोऽर्थः ? किं न नियताः ? आहोस्विन्नियता अप्यनुपकारकाः ? प्रथमे - धूमो दहनवद् गर्दभमप्यवधी कुर्यात्, नियामकाभावात् ; द्वितीये - किमुपकारान्तरेण, नियमस्यैवापेक्षार्थत्वात्, तस्यैव च कारणात्मत्वात्, ईदृशस्य च स्वभाववादस्येष्टत्वात् ; नित्यस्वभावनियमवदेतत् नह्याकाशस्य तत्त्वमाकस्मिकमिति सर्वस्य किं न स्यादिति वक्तुमुचितमिति चेत् ? न - सर्वस्य भवतः स्वभावत्वानुपपत्तेः नह्येकमनेकस्वभावं नाम, व्याघातात्; नन्वेवमिहापि सर्वदा भवतः कादाचित्कस्वभावव्याघात इति तुल्यः परिहारः, न तुल्यःनिरवधित्वे अनियतावधित्वे वा कादाचित्कत्वव्याघातात्, नियतावधित्वे हेतुवादाभ्युपगमात्" इति । एतद्व्याख्यानं च वर्धमानोपाध्यायस्य शिष्यबुद्धिवैशद्य निमित्तमित्युपदश्यते " " द्वितीयं शङ्कते - सन्त्विति - प्रागभावादन्येषामवधित्वेऽपि तैर्घटादिसत्ताया अनियमनान्न तानि कारणानीत्यर्थः । प्रथम इति - ननु यो दहनव्यभिचारी स रासभानन्तरं भवतीत्यत्रापादकाभावः, स्वयमपि व्याप्तेरनभ्युपगमात् न च धूमत्वं यदि दहनव्यभिचारिवृत्ति स्यात् दहनासमवहितसामग्र्युत्तरकालोत्पत्तिकवृत्ति स्यादित्यर्थः परस्येष्टापत्तेः, मैवम् - धूमो यदि रासभसमवधानोत्पत्तिकतावच्छेदकरूपवान् स्यात् रासभसमवधानानन्तरोत्पत्तिकः स्यात्, धूमत्वं वा यदि दहनव्यभिचारिवृत्ति स्यात् दहनासमवहित देशवृत्ति स्यादित्यापादनार्थस्वात् ; वस्तुतो यद्यग्निर्धूमकारणं न स्यात् तदा कथं धूमार्थी नियमतोऽग्निमुपादत्ते न रासभमिति तद्ब्राहिप्रत्यक्षव्याघात इति भावः । द्वितीये त्विति - नद्युपकारव्याप्ता कारणता येन तदभावे न स्यात्, उपकारेऽपि कर्तव्ये उपकारान्तरापेक्षयाऽनवस्थितेः, किन्तु स्वरूपविशेषव्याप्ता, तन्निवृत्तावेव निवर्तत इत्यर्थः । नियमस्यैवेति-नियतान्वयव्यतिरेकवज्जातीयस्यैवापेक्षणीयपदवाच्यतया लोक सिद्धत्वादित्यर्थः । नित्यस्वभावेति - यथा नित्यस्याकाशस्य यः स्वभावो धर्मः शब्दाश्रयत्वमात्मनश्चात्मत्वमाकस्मिकमिति सर्वस्य तदन्यस्यापि धर्मः कुतो न स्यादिति न वक्तुमुचितमप्रामाणिकत्वात्, तथा आकस्मिकत्वाविशेषेऽपि
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy