SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [प्रथमः तमन्तरेण तु तयोः, क्षयः केन प्रसाध्यते ।। सदा स्थान कदाचिद् वा, यद्यहेतुक एव सः ॥ २४ ॥ तमन्तरेणेति-तमन्तरेण तु-संज्ञानयोग विनैव । तयोः संसारफलयोधर्मा-ऽधर्मयोः। क्षय अत्यन्तविनाशः । केन केन हेतुना। प्रसाध्यते उत्पाद्यते, न केनापि हेतुना तस्योत्पत्तिर्भवेदित्यर्थः। ननु संसारफलकधर्माधर्मात्यन्तविनाशहेतुर्न कश्चिद् दृश्यत इत्यहेतुक एव धर्माधर्मविनाशोऽस्तु, सहेतुकविनाशस्य दुःश्रद्धेयत्वादिति बौद्धाशङ्कायामाह-सदा स्यादिति । यद्यहेतुक एव हेतुरहित एव, स धर्माधर्मोभयक्षयः, तदा तस्योत्पत्तिस्वभा वत्वे यस्य यः स्वभावः स तत्स्वभावमन्तरेण न तिष्ठतीति सदैवोत्पत्तिस्वभावस स्यादित्याह-सदा स्यादिति । धर्मा-ऽधर्मक्षयस्यानुत्पत्तिस्वभावत्वे कदापि न स्यादेव, अन्यथा तत्स्वभावप्रच्युतिः स्यादित्याह-न कदाचिद् वेतिकदापि वा न स्यादित्यर्थः । कदाचिदनेनोत्पत्तव्यमित्येवं कदाचिदुत्पत्तिस्वभावत्वान सर्वदा स्यादिति चेत् ? विनिगमकाभावाद् यदा यदोत्पत्तिस्स्थापाद्यते स स कालः कदाचिदित्यस्याभिधेय इत्येवं कालान्तरेऽप्युत्पत्तिः स्यात् , अथवा यदा नोत्पद्यते स कदाचिन्नेति वक्तुं न शक्यते तदोत्पत्त्याऽपि कदाचिदुत्पत्तिस्वभावोऽस्य निर्वहतीति तदोत्पत्तिप्रसङ्गः स्यात् । तदहरेवानेनोत्पत्तव्यमित्येवं कालविशेषघटिततदहरेवोत्पत्तिस्वभावत्वान्नान्यदोत्पत्तिरिति चेत् ? तर्हि उक्तस्वभावः प्रतिनियतदिवसघटित इति तद्दिवसस्य सद्भाव एव उक्तस्वभावसम्भवः, स दिवसो यदि कारणमन्तरेणैव स्यात् तदा पूर्व-पूर्वतर-पूर्वतमकालेऽपि स्यादेवमुत्तरोत्तरकालेऽपि स्यादित्येवमभिमतदिवसस्य सनातनत्वे तदहरेवोत्पत्तिस्वभावस्यापि सदातनत्वे सत्येव सम्भव इति सदातनत्वं प्रसज्यत इति तद्दिवसस्य कारणमवश्यमभ्युपगन्तव्यमिति तस्य यत् कारणं तदुक्तस्वभावस्थापीति तत्तद्धेतुसकाशादेवोत्पत्तिस्वभावादायातं सहेतुकत्वम् । ननु आकाशस्याकाशत्वं भवद् निर्हेतुकमपि नात्मादेर्भवतीति तस्य क्वाचित्कत्वं यथा न हेतुनियम्यं तथाऽत्र कादाचित्कत्वमपि स्वभावत्वादेव न हेतुनियम्यमिति चेत् ? नकादाचित्कत्वस्यावधिनियम्यत्वात् । सन्त्ववधयो न तु तेऽपेक्ष्यन्त इति चेत् ? न-नियतपूर्ववर्तित्वस्यैवापेक्षार्थत्वात् , यदि नियतपूर्ववर्तिभिन्नमप्यपेक्ष्येत तदा
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy