________________
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः
मोक्षहेतोराशंसाराहित्यमित्येवं यद्वैलक्षण्यमुपवर्णितं तेन बन्धजनकतावच्छेदकपाशंसासाहित्यं मोक्षजनकतावच्छेदकमाशंसाराहित्यमित्येव वर्णितम् । न चैवं'संज्ञानयोग एवैकस्तथाऽन्यः पुण्यलक्षणः' इति मोक्षजनककर्मभिन्नत्वं यच्छुभबन्धहेताः पुण्यलक्षणस्योक्तं तत् कथं सङ्गतं स्याद् ? धर्मस्याभेदेऽपि तत्र निरुक्तधर्मवैलक्षण्यसंभवादिति वाच्यम्, तत्रान्यपदस्य वैधार्थकत्वेन सर्वसामञ्जस्यात्।
परे तु - "तपस्त्व-चारित्रत्वाभ्यामेव मोक्षहेतुता, न तु तत्र वीतरागत्वमपि जनकतावच्छेदककोटौ प्रविशति, सरागताकालीनप्रशस्तसङ्गादेव स्वर्गोपपत्तेः; वस्तुतः सरागतपसः स्वर्गहेतुत्वं 'सविशेषणे हि' इति न्यायेन रागमात्र एव पर्यवस्यति" इत्याहुः। ___ अपरे तु-“यस्य यदुद्देशेन क्रियमाणत्वं तस्य तत्फलकत्वमिति नियमेन मोक्षोद्देशेन क्रियमाणयोस्तपः-संयमयोर्मोक्षफलकत्वान्मोक्षहेतुत्वमेव, स्वर्गस्य चानुद्देश्यत्वान्न फलत्वम् , काशप्रतिबन्धाच न तदा मोक्षोत्पादः, ततो गत्यन्तरजनकादृष्टाभावादर्थत एव स्वर्गोत्पत्तिः" इत्याहुः।
इत्थमुपवर्णिताः सूरीणां सर्व एव पक्षाः सदादेशत्वादुपादेया एव, सर्वज्ञाहदनुमतविचित्रनयाकूताकलनप्रवणमहर्षिवचनानुसारित्वादिति ॥ २२ ॥ उक्तदिशोपपादितं धर्मद्वैविध्यं शब्दान्तरेण तन्त्रान्तरेऽप्यभ्युपगतमित्याह
भोग-मुक्तिफलो धर्मः, स प्रवृत्तीतरात्मकः ।
सम्यमिथ्यादिरूपश्च, गीतस्तत्रान्तरेष्वपि ॥ २३ ॥ भोगेति-पुण्यलक्षणो धर्म एको भोगफलः, अन्यश्च शुद्धतपोरूपो धर्मो मुक्तिफल इति शैवाः; भोगफलो धर्मः प्रवृत्त्यात्मक एकः, मुक्तिफलो धर्मो निवृत्त्यात्मकोऽन्य इति त्रैविद्यवृद्धाः; सम्यग्रूपो मुक्तिफलो धर्म एकः, मिथ्यारूपो भोगरूपो धर्मोऽन्य इति बौद्ध विशेषाः; सम्यग्-मिथ्यादीत्यत्रादिशब्दाद् हेयोपादेया-ऽभ्युदयनिश्रेयसपरिग्रहः । एवं प्रयोजनभेदादेव तन्त्रान्तरेष्वपि जैनदर्शनातिरिक्तदर्शनेष्वपि । स द्विभेदः । गीत उक्त इत्यर्थः ॥ २३ ॥
ये चागमस्य प्रामाण्ये सामान्यतो विशेषतो वा विप्रतिपद्यन्ते तान् प्रति मोक्षफलके संज्ञानयोगलक्षणधर्मे कार्यान्यथानुपपत्तिलक्षणं प्रमाणमुपदर्शयति
३ शास्त्र०स०