SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [प्रथमः हारविषयत्व-शुभबन्धहेतुत्वयोाप्यग्रहादित्याशयः । यत्र धर्मपदव्यवहारविषयत्वं तत्र शुभबन्धहेतुत्वमिति नियमो मास्तु किन्तु यत्र धर्मपदव्यवहारविषयत्वं तत्र शुभबन्धहेतुत्वाभाव इति सहचारः संज्ञानयोगलक्षणतपसि दृश्यत इति तद्वद् दानादिधर्मेऽपि बन्धहेतुत्वाभावः सिद्ध्येदिति पराशङ्कामुपन्यस्यतिअन्येऽपि किं नैवं चेदिति-पुण्यलक्षणधर्मा अपि अबन्धफलाः किं न स्युरित्यर्थः । अबन्धहेतुत्वव्यापकस्याशंसादोषवर्जितत्वस्य पुण्यलक्षणधर्मेष्वभावात् तद्वयाप्यस्य बन्धफलहेतुत्वाभावस्याप्यभावो व्यापकाभावे व्याप्याभावस्यावश्यम्भावादित्युत्तरयति-न यत् तथेति-यस्मात् कारणात् पुण्यलक्षणा धर्मा आशंसावर्जिता न किन्त्वाशंसासमन्विता एवेत्यर्थः । ननु यस्य धर्मस्यमोक्षहेतुत्वं न तस्य शुभबन्धहेतुत्वम् , यस्य शुभबन्धहेतुत्वं न तस्य मोक्षहेतुत्वमिति धर्मद्वैविध्योपपादनेन यदुपदर्शितं तन्न युक्तम्, चारित्रधर्मस्यैकस्यापि रागसहकारेण बन्धहेतुत्वस्य रागवैकल्येन मोक्षहेतुत्वस्य च संभवात् , अत एव भगवत्यां पूर्वतपः-पूर्वसंयमयोः शुभफलात्मकस्वर्गहेतुत्वमुपदर्शितम् ; न च धर्मस्यैकत्वेऽपि तद्तो बन्धजनकतावच्छेदकधर्मोऽन्यः, तदन्यश्च मोक्षजनकतावच्छेदकधर्म इत्येवं जनकतावच्छेदकधर्मभेदाच्छुभबन्धहेतुत्वं मोक्षहेतुत्वं च भविष्यतीति साम्प्रतम् , सरागत्वं बन्धजनकतावच्छेदकं वीतरागत्वं मोक्षजनकतावच्छेदकमित्यत एवोपपत्तौ तदतिरिक्तजनकतावच्छेदकरूपभेदकल्पने मानाभावात् ; न च सरागत्वं न बन्धजनकतावच्छेदकं नवा वीतरागवं मोक्षजनकतावच्छेदकम् , किन्तु कर्मक्षयोपशमजन्यधर्मे यत् कर्मक्षयोपशमनिरूपितजन्यतावच्छेदकं तच्छुभबन्धजनकतावच्छेदकं कर्मक्षयजन्यधर्मे यत् कर्मक्षयनिरूपितजन्यतावच्छेदकं तन्मोक्षजनकतावच्छेदकमिति वाच्यम् , तथा सति शैलेशीसमयभाविन एव चारित्रस्य कर्मक्षयजन्यत्वेन कर्मक्षयनिरूपितजन्यतावच्छेदकधर्मवत्तया मोक्षहेतुत्वस्य संभवेन ऋजुसूत्रनयाश्रयणप्रसङ्गादिति चेत्? सत्यम्-ऋजुसूत्रोपगृहीतव्यवहाराश्रयणेनैवेत्थमभिधानात् , शुद्धर्जुसूत्रनयेन तु ज्ञान-तपसोरन्यथासिद्धत्वम् , तजन्यक्रियाया एव मोक्षसम्भवात् , यदाह भगवान् भद्रबाहुः “सडुजसुआणं पुण निव्वाणं संजमो चेव" [शब्दर्जुसूत्रयोः पुनर्निर्वाणं संयम एव] इति । अथवा धर्मस्तदपीत्यादिपद्ये आशंसासाहित्यं शुभबन्धहेतोः,
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy