SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः ग्राह्यः, विशिष्टज्ञाने सविकल्पकनिर्विकल्पकव्यवस्थायोगात् , परिभाषामात्रस्य निरालम्बनत्वात् , पृथक्त्वानभिधानेन चात्र न्यूनत्वम् , प्रज्ञालोकश्च केवलज्ञानादधः सचित्रालोककल्पश्चतुर्ज्ञानप्रकर्षोत्तरकालभावी प्रतिभापरनामा ज्ञानविशेषः, ऋतम्भरा च केवलज्ञानम्, ततः संस्काराशयवृद्धिश्चासंभवदुक्तिका, मतिज्ञानभेदस्य संस्कारस्य तन्मूलभूतज्ञानावरणक्षयेणैव क्षीणत्वात् , अतश्वरमशुक्लध्यानांशस्थानीयोऽसंप्रज्ञातसमाधिन वृत्तिनिरोधार्थमपेक्षणीयः, किन्तु भावोपग्राहिकर्मक्षयार्थमिति सूक्ष्ममीक्षणीयम् , ज्वरपरवशपुरुषवचनप्रायाणां परतन्त्राणां काकतालीयन्यायेनैव क्वचिदर्थबोधादिति दिक् । तदेवं ध्यानरूपमेवं तपो ज्ञान-क्रियाभ्यामपृथग्भूतमपृथग्भूततत्तद्वयापारयोगि परमयोगाभिधमपवर्गहेतुरिति नियूंढम् , तत्र च धर्मपदशक्तिराप्तवाक्यादेव, स्वारसिकप्रयोगे लक्षणानवकाशात् , अन्यथा विनिगमनाविरहात्, देवार्चादौ धर्मजनकत्वेनैव धर्मपदप्रयोगो न तु स्वरसत इति चेत् ? तथाऽप्यत्र योगजादृष्टप्रयोजकतया धर्मपदप्रयोग इति न वैषम्यम्” इति ॥ २१ ॥ परप्रश्न-तदुत्तरनिकरगुम्फनेन शुद्धतपसो धर्मत्वं व्यवस्थापयतिधर्मस्तदपि चेत् सत्यं, किं न बन्धफलः स यत् । आशंसावर्जितोऽन्येऽपि, किं नैवं चेन्न यत् तथा॥२२॥ धर्मस्तदपीति-धर्मस्तदपीति परस्य पृच्छा, शुद्धतपोऽपि धर्मव्यवहारविषय इति तदर्थः । इति चेत् सत्यमित्युत्तरम् , एवं यदि त्वं मन्यसे तत् सत्यम् , शुद्धतपो धर्मपदव्यवहारविषय एवेति तदर्थः । उद्घाटिताशयः परः पृच्छति-किं न बन्धफलः स इति-तपोलक्षणो धर्मः कर्मबन्धहेतुः किं न भवति? यत्र धर्मव्यवहारविषयत्वं तत्र शुभबन्धहेतुत्वमिति हि दृश्यते दानादिधर्मे, धर्मव्यवहारविषयत्वं चोपेयते संज्ञानयोग इति तत्रापि शुभबन्धहेतुत्वं स्यादिति प्रष्टुरभिप्रायः । प्रकटितस्वाभिप्रायः समाधातोरुत्तरयति-यद् आशंसावर्जित इति-यस्माच्छुद्धतपोलक्षणो धर्म आशंसावर्जित इत्यर्थः; दानादिधर्मे धर्मपदवाच्यतया लोकप्रसिद्ध आशंसादोषवत्त्वं प्रसिद्धं तस्मात् स बन्धहेतुः, तद्धर्मानाक्रान्तं च शुद्धतप इति न धर्मव्यवहारविषयत्वेनास्य बन्धहेतुत्वम् , सहचारमात्रस्य व्याप्तिग्रहानिमित्तत्वात् , लोहलेख्यत्व-पार्थिवत्वयोर्वज्रभिन्ने सर्वत्र पार्थिवे सहचारेऽपि वज्रे व्यभिचारेण व्याप्त्यग्रहवत् प्रकृतेऽपि धर्मव्यव
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy