SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । [ प्रथमः मात्रावशेषत्वेन सास्मितः समाधिः, यत्र स्थिताः परं पुरुषं पश्यन्ति; तदिदं समाधिद्वयं ग्रहीतृ-ग्रहणयोरपि चित्तवृत्तिविषयतया ग्राह्यकोटावेव निक्षेपान्नातिरिच्यते; तदिदमुक्तम् - " सूक्ष्मविषयत्वं चालिङ्गपर्यन्तम्” [पात ० १ ४५. 3.] इति, सूत्रितं च - "चतुर्विधा हि ग्राह्यसमापत्तिः " [ ] इत्यादि, “क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृ - ग्रहण - ग्राह्येषु तत्स्थतदञ्जनता समापत्तिः” [पात० १. ४१.] इति समापत्तिलक्षणम्, तत्स्थता - तदेकाग्रता तन्मयता, न्यग्भूते चित्ते भाव्यमानोत्कर्षः स्फटिकोपरागस्थानीयः निर्विचारसमाधेः प्रकृष्टाभ्यासाच्छुद्धसत्त्वोद्रेके क्लेशवासनारहितस्य चित्तस्य भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः प्रादुर्भवति, तदुक्तम् - " निर्विचारवैशारयेऽध्यात्म-' प्रसादः " [ पात० १. ४७.] इति, " ऋतम्भरा तत्र प्रज्ञा " [ पात० १.४८. ८. ] इति, "ऋतं सत्यमेव बिभर्ति भ्रान्तिकारणाभावादिति ऋतम्भरा, यौगिकीयं संज्ञा, सा चोत्तमो योगः, तथा च भाष्यम् - wwwww "आगमेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम्” ॥ १ ॥ इति । तज्जन्यसंस्काराणां व्युत्थानादिसंस्कारविरोधित्वात्, तत्प्रभवप्रत्ययाभावेऽप्रतिहतप्रसरः समाधिः, ततस्तज्जा प्रज्ञा, ततस्तत्कृताः संस्काराः, इति नवो नवः संस्काराशयो वर्धते, ततश्च प्रज्ञा, ततश्च संस्कार इति, ततो योगिप्रयत्नविशेषेण संप्रज्ञातसमाधेर्व्युत्थानजानां च संस्काराणां निरोधादसंप्रज्ञातसमाधिर्भवति, तदुक्तम् - " तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः" [ पात० १. ५१.] इति, तदा च निरोधचित्तपरिणामप्रवाहः, तज्जन्यसंस्कारप्रवाहश्चावतिष्ठते, तदुक्तम् - "संस्कारशेषोऽन्यः " [ पात० १. १८. ] इति, ततः प्रशान्तवाहिता संस्कारात् सा ह्यवृत्तिकस्य चित्तस्य निरिन्धनाग्निवत् प्रतिलोम परिणामेनोपशमः, तत्र पूर्वप्रशमजनितः संस्कार उत्तरोत्तरप्रशम हेतुरिति, ततो निरिन्धनाग्निवश्चित्तक्रमेणोपशाम्यद् व्युत्थानसमाधिनिरोधसंस्कारैः सह स्वस्यां प्रकृतौ लीयत इति; अत्र चतुर्विधोऽपि संप्रज्ञातसमाधिः शुक्कुध्यानस्याद्यपादद्वयं प्रायो नातिशेते, षोडशकादिविषयोपवर्णनं च तत्राप्रामाणिकस्वप्रक्रियामात्रम्, तन्त्र मानाभावात्, आत्मविषयकसाक्षात्कारे आत्मविषयकस्यैव ध्यानस्य हेतुत्वाच्च ; वितर्कश्चात्र विशिष्टश्रुतसंस्काररूपः, विचारश्च योगान्तरसंक्रमरूपो " ३० -
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy