________________
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः इति चिकित्सावद् विवेचनं व्यतिरेकः, दृष्टा-ऽऽनुश्रविकविषयप्रवृत्तेर्दुःखमयत्वबोधेन बहिष्प्रवृत्तिमजनयन्त्या अपि तृष्णाया औत्सुक्यमात्रेण मनस्यवस्थानमेकेन्द्रियम् , तृष्णाविरोधिनी चित्तवृत्तिज्ञानप्रसादरूपा वशीकारः, तदिदं सूत्रितम्-"दृष्टाऽऽनुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्" [पात. १. १५.] इति, तदन्तरङ्गसाधनं संप्रज्ञातस्य समाधेः, असंप्रज्ञातस्य तु बहिरङ्गम् ; परं तु वैराग्यं संप्रज्ञातसमाधिपाटवेन गुणत्रयात्मकात् प्रधानाद् विविक्तस्य पुरुषस्य साक्षात्कारादगुणशेषगुणत्रयव्यवहारेषु वैतृष्ण्यं यत् , “तत् परं पुरुषख्यातेर्गुणवैतृष्ण्यम्" [पात० १. १६ ] इति सूत्रम् , तदन्तरङ्गं साधनमसंप्रज्ञातसमाधेः, तत्परिपाकनिमित्ताच्च चित्तोपशमातिशयात् कैवल्यम् , इति यथास्थानं व्यवस्थापनात् ।
अत्रेदमवधेयम्-अभ्यस्तं तपः समुच्छिन्नक्रियानिवृत्तिरूपं ध्यानमेव, तस्यैव साक्षाद् मोक्षहेतुत्वात् , न च मोक्षहेतुशुद्धात्मज्ञानेन तस्य व्यवधानम , समकालभाविनोरपि ज्ञान-ध्यानयोः प्रदीप-प्रकाशयोरिव निश्चयतो हेतुत्वाश्रयणात् , तदिदमभिप्रेत्योक्तम्
"मोक्षः कर्मक्षयादेव, स चात्मज्ञानतो भवेत् ।
ज्ञानसाध्यं मतं तच्च, तद् ध्यानं हितमात्मनः ॥ १ ॥" [ ] इति । समाधिरिति च शुक्लध्यानस्यैव नामान्तरं परैः परिभाषितम् , तथाहिचतुर्विधस्तैः संप्रज्ञातसमाधिरुक्तः-सवितर्कः, निर्वितर्कः, सविचारः, निर्विचारश्चेति, यदा स्थूलं महाभूतेन्द्रियात्मकषोडशविकाररूपं विषयमादाय पूर्वा-ऽपरानुसन्धानेन शब्दार्थोल्लेखेन च भावना क्रियते सविकल्पकवृत्तिरूपा तदा सवितर्कः समाधिः, यदा त्वस्मिन्नेवालम्बने शब्दार्थस्मृतिविलये तच्छून्यत्वेन भावना प्रवर्तते निर्विकल्पवृत्तिरूपा तदा निर्वितर्कः समाधिः, यदाऽन्तःकरणं सूक्ष्मविषयमालम्ब्य देश-काल-धर्मावच्छेदेन सविकल्पकवृत्तिरूपा भावना प्रवर्तते तदा सविचारः समाधिः, यदा चास्मिन्नेव विषये तदवच्छेदं विना निर्विकल्पकवृत्तिरूपा धर्मिमात्रभावना प्रवर्तते तदा निर्विचारः समाधिरिति; रजस्तमोलेशानुविद्धान्तःकरणसत्त्वस्य भावनात्मको भाव्यमानसत्त्वोद्रेकेण सानन्दः समाधिः, यत्र बद्धतियः प्रधान-पुरुषतत्त्वान्तराऽदर्शिनो विदेहशब्देनोच्यन्ते; रजस्तमोलेशानभिभूतशुद्धसत्त्वमालम्ब्य भावनात्मकश्विच्छक्तेरुद्रेकात् सत्ता