SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ २८ शास्त्रवार्तासमुच्चयः। [प्रथमः विलम्बेन फलोदयाञ्च, अङ्गीकृतं च पातञ्जलैरप्येतत्-"अभ्यास-वैराग्याभ्यां तन्निरोधः" [पात० १. १२.] ताः-प्रमाण विपर्यय-विकल्प-निद्रा-स्मृतिलक्षणाः पञ्च वृत्तयः, तत्र प्रत्यक्षादीनि प्रमाणानि, विपर्ययो मिथ्याज्ञानम् , तद् अविद्याऽस्मिता-राग-द्वेषा-ऽभिनिवेशभेदेन पञ्चविधम्, “अनित्या-ऽशुचि-दुःखाऽनात्मसु नित्य-शुचि-सुखा-ऽऽत्मख्यातिरविद्या" [पात० २.५.] "इग्-दर्शनशक्त्योरेकात्मतैवाऽस्मिता" [पात० २. ६.] “सुखानुशयी रागः" [पात. २. ७.] "दुःखानुशयी द्वेषः" [पात० २. ८. ] "स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः' [पात० २. ९.] शब्दज्ञानानुपाती वस्तुशून्यः प्रमाभ्रमविलक्षणोऽसदर्थव्यवहारो विकल्पः-शशविषाणम् , असत् पुरुषस्य चैतन्यमित्यादि, "अभावप्रत्ययालम्बना वृत्तिर्निद्रा" [पात० १. १०.] चतसृणां वृत्तीनामभावस्य प्रत्ययः-कारण तमोगुणस्तदालम्बना वृत्तिनिद्रा, न तु ज्ञानाद्यभावमात्रमिति भावः, अनुभूतविषयासंप्रमोषप्रत्ययः स्मृतिः, पूर्वानुभवसंस्कारजं ज्ञानमित्यर्थः, तासां निरोधः-सवासनानां क्षयः, स चाभ्यासेन वैराग्येण च भवति; वैराग्येण चित्तनद्या विषयप्रवाहो निवार्यते, समाध्यभ्यासेन च प्रशान्तवाहिता सम्पाद्यते, इति द्वारभेदेनोभयोः समुच्चयात् , एकद्वारत्वे व्रीहियववद् विकल्प एव स्यात् , न तु समुच्चय इति; "तत्र स्थितौ यत्नोऽभ्यासः" [पात० १. १३.] तत्र-द्रष्टरि शुद्धे, चित्तस्यावृत्तिकस्य प्रशान्तवाहितारूपा निश्वला स्थितिः, तदर्थ यत्नो-मानस उत्साहो बहिर्मनो निरोत्स्यामीत्याकारः, स चाऽऽवय॑मानोऽभ्यास उच्यत इति; "स तु दीर्घकाल नैरन्तर्य-सत्कारासेवितो दृढभूमिः” [ पात० १. १४.] अनिदेन दीर्घकालासेवितः, अविच्छेदेन निरन्तरासेवितः, श्रद्धातिशयेन सत्कारासेवितो दृढभूमिः-विषयवासनया चालयितुमशक्यो भवति, अन्यथा तु लयविक्षेप-कषाय-सुखास्वादापरिहारे व्युत्थानसंस्कारप्राबल्यात् समाधिसंस्काराणां भङ्गुरतयाऽदृढभूमिरेव स्यात् , इति कथं ततो विशिष्टफलसिद्धिः स्यात् ?; वैराग्यं च द्विविधं-परमपरं च, तत्र यतमानसंज्ञा-व्यतिरेकसंजैकेन्द्रियसंज्ञा-वशीकारसंज्ञाभेदैरपरं चतुर्धा, तत्र किमिह सारं, किं चासारम् ? इति गुरुशास्त्रपारतन्त्रयेण ज्ञानोद्योगो यतमानम् , विद्यमानस्वचित्तदोषाणां मध्येऽभ्यस्थमानविवेकेनैतावन्तः पक्काः, एतावन्तश्चावशिष्टा
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy