________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः वाच्यः, तेनैकस्य धर्मत्वस्य सामान्यरूपस्योभयसाधारणस्याभावेऽपि न क्षतिः । द्विधा द्विप्रकारः । मतः शास्त्रकारिष्टः, तथा च नानार्थकोऽयं धर्मशब्द इत्येकस्य धर्मशब्दवाच्यस्य मोक्षजनकत्वम् , तदन्यस्य धर्मशब्दवाच्यस्य मोक्षविरोधित्वमविरुद्धमित्यग्रे स्पष्टीभविष्यति । द्वैविध्यमित्थम्-संज्ञानयोग एवैकः सं-समीचीनमहत्प्रवचनानुसारि, ज्ञानं-गुरुपारतत्र्यनिमित्तं संवेदनम् , तेन सहितो योगः-शुभवीर्योल्लासः, प्रसिद्धार्थश्चात्रैवकारो नान्यं व्यवच्छिनत्ति । एकः एकप्रकारः । तथा एवम् , अन्यो द्वितीयप्रकारो धर्मः । पुण्यलक्षणः पुण्येन-सातादिना कार्येण लक्ष्यत इति पुण्यलक्षणः, पुण्यहेतुराशंसावान् , ततश्च हेयः सः ॥ २० ॥
प्रसिद्धः खलु पुण्यलक्षणो धर्मो लोक इति स्वरूप-फलाभ्यां संज्ञानयोगधर्म निरूपयति
ज्ञानयोगस्तपः शुद्धमाशंसादोषवर्जितम् ।
अभ्यासातिशयादुक्तं, तद्विमुक्तेः प्रसाधकम् ॥ २१ ॥ ज्ञानयोग इति-ज्ञानयोगः-यः प्रथमभेदो धर्मस्य संज्ञानयोगः, स तपः। तद् विशिनष्टि-शुद्धमिति-अविध्यासेवनमलरहितं ज्ञान-संयमोपबृंहितमित्यर्थः । पुनस्तद् विशिनष्टि-आशंसादोषवर्जितमिति-आशंसादोषेण-इहपरलोकादिन-देवैश्वर्यादिपुष्टफलाशंसया, वर्जितं-तजन्येच्छाऽविषयीभूतमित्यर्थः, दोषवर्जितमित्येतावन्मात्रोक्तावपि दोषत्वेनाशंसादोषस्य ग्रहणसम्भवाद् विशिप्योपादानमस्य प्राधान्यप्रतिपत्तये । उक्तगुणोपपन्नं तपः कुतो भवतीत्याकाङ्क्षायामाह-अभ्यासातिशयादिति-क्षायोपशमिकभावपूर्वकदृढयत्नादित्यर्थः । उक्तं सर्वहरुपदिष्टम् । हि यतः। तत् निरुक्तं तपः। मुक्तेः मोक्षस्य । प्रसाधकं जनकम् । . अन विशेषमित्थमुपदर्शितवन्तः श्रीमन्तो यशोविजयोपाध्यायाः-दुष्टाशंसापूर्वकस्य तपसो निषिद्धत्वात् , “नो इहलोगट्ठाए तवमहिडिजा, नो परलोगट्ठाए तवमहिटिजा" [नो इहलोकार्थतया तपोऽधितिष्ठेत् , नो परलोकार्थतया तपोऽधितिष्ठेत् ,] इतिवचनात् , केवलस्य च तस्य विशिष्टनिर्जरां प्रत्यजनकत्वात् , समुदितानामेव त्रयाणां प्रकाश-व्यवदाना-ऽनाश्रवरूपव्यापानिःशेषकर्माभावोपपत्तेः, अभ्यासस्य च स्वजनकभाववृद्धिहेतुत्वेन ततोऽशुभवासनाक्षयाद